सूत उवाच- शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः । गोगोपगोपीप्राणस्य वृन्दावनचरस्य च
एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः । स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम्
नारद उवाच- सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम् । प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम्
विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम्
कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः । प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः
प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत्
सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम्
सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम्
रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् । लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम्
आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम्
सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् । वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम्
मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं संतानकप्रसरदामपरिष्कृतांसम् । हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम्
श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम् । आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमंजुलरोमराजिम्
नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम् । दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम्
चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम्
मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम्
आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः । शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम्
गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः । दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम्
संप्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः । वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च
प्रत्यग्रशृङ्गमृदुमस्तकसंप्रहारसंरम्भभावनविलोलखुराग्रपातैः । आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः
हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः । उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः
गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः । मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः
जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः । मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमंजुवचनैः पृथुकैः परीतम्
अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम् । गुरुकुचभरभंगुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम्
तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य । मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम्
तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः । तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसंततानाम्
तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या । दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम्
तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम् । प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम्
विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन् । माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः । मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-। न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम्