संस्तूयमानो मुनिदेवसंघैर्यस्तद्विशेषाधिकलब्धपुण्यः । परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवंद्यः
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये । द्व्युत्तरशततमोऽध्यायः
यम उवाच- एतन्माधवमासस्य समासात्किंचिदीरितम् । माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम
वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम् । स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च
धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत् । स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम्
इदं माधवमासस्य माहात्म्यं माधवप्रियम् । चरित्रं भूपतेस्तस्य संवादं चावयोरपि
श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम् । भवेद्भक्तिर्भगवति यया स्यात्पापसंक्षयः
अथ गच्छ महीदेव देवलोकाद्यथेच्छया । निपात्य भुवि वैदेहं रुदंत्यद्यापि बांधवाः
विलप्यमानैरपि बंधुभिस्तैर्न यावदग्नौ तव तच्छरीरम् । प्रक्षिप्यते हंत जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः
ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि । विधानतो वै समये समंते समागमोंऽते भविता सुरैश्च
सूत उवाच- इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः । पुनः पपात स इह परितुष्टमना द्विजः
धर्मराजप्रसादेन ततस्तत्र महीतले । संसुप्तइव चोत्तस्थौ बंधुवर्गसमन्वितः
विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम् । स्वयं च कारयामास माधवस्नापनं जनम्
यमब्राह्मणसंवादो मयायं परिकीर्तितः । तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः
वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या । दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा
यःशृणोत्येकचित्तेनमाहात्म्यंमेषसूर्यजम् । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
ऋषय ऊचुः - सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना । वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम्
नियमा मधुहन्तुर्ये माधवे कथितास्त्वया । पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः
यथा च माधवो देवः प्रीयते पापनाशनः । अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः
कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम्
सूत उवाच- शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः । गोगोपगोपीप्राणस्य वृन्दावनचरस्य च
एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः । स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम्
नारद उवाच- सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम् । प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम्
विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम्
कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः । प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः
प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत्
सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम्
सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम्
रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् । लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम्