ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च । संतः फलं हि गण्यंते यद्भीतपरिरक्षणम्
यद्यस्ति सुकृतं किंचिन्मम तेनैव जंतवः । स्वर्गे गच्छंतु मुक्तौघाः स्थाने तेषां वसाम्यहम्
एवं भूपवचः श्रुत्वा तस्य सत्यवतो हि ते । ध्यायंतः सत्यमौदार्यमब्रुवंस्ते वचो नृपम्
दूता ऊचु- अनेन तव कारुण्यकर्मणा वचसा नृप । बभूव वृद्धिर्धर्मस्य संचितस्य विशेषतः
स्नानं दानं जपो होमस्तपो देवार्चनादिकम् । कृतं यन्माधवे मासि तदनंतफलं विदुः
स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह । वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च
गीयमानो मुदं याति गीर्वाणरमणीगणैः । जलान्नदानतो लोकं लभते वारुणं शुभम्
कुलानि हेलया सप्त संतारयति गोप्रदः । हयं दत्वा रवेर्लोकं याति विद्याप्रदो नरः
ब्रह्मलोकं तथा हेमदानाद्याति सुरालये । यो ददाति तथा कन्यां विष्णुलोकं स गच्छति
माधवेमासि यः स्नात्वा दत्वा संपूज्य माधवम् । अवाप्य सकलान्कामान्प्रयाति पदमव्ययम्
एकतोऽपि तपो दान क्रतु सुत्यादिकाः क्रियाः । एकतो विधिवन्मासो माधवश्चरितो महान्
तस्य माधवमासस्य दिनैकस्यापि भूपते । कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा
कारुण्येन दिनैकस्य पुण्यं देहि धरापते । निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे
न दयासदृशो धर्मो न दयासदृशं तपः । न दयासदृशं दानं न दयासदृशः सखा
पुण्यदः पुण्यमाप्नोति नरो लक्षगुणं सदा । कारुण्येन विशेषात्ते धर्मवृद्धिस्ततो भवेत्
दुःखितानां हि भूतानां दुःखोद्धर्त्ता नरो हि यः । स एव सुकृती लोके ज्ञेयो नारायणांशजः
वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया । यत्तीर्थे विहितं वीर सर्वाघविनिषूदनम्
तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम् । त्रिवाचिकं च निरयाद्येनामी स्वर्गमाप्नुयुः
कपोतार्थं स्वमांसानि कारुण्येन पुरा शिबिः । दत्वा दयानिधिः स्वर्गे राजते कीर्तिवारिधिः
दधीचिरपि राजर्षिर्दत्वास्थि च यमात्मनः । त्रैलोक्यकौमुदीं कीर्तिं लब्धवान्स्वर्गमक्षयम्
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः । ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्
न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः । यदार्तजंतुनिर्व्वाणदानोत्थमिति नो मतिः
सर्वेषु दातृजातेषु पुरा जातोसि भूपते । कर्मणानेन संख्यासु धीर धैर्यं नियोज्य च
दृष्ट्वा तवधियं धर्म दया दानं सुनिश्चलम् । अस्माभिरपि तूत्साहः क्रियते धर्म्मवादिभिः
यदि ते रोचते राजन्न विलंबतया ततः । तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम्
इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम् । तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ
दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे । स्वकृते जंतवो याम्ययातनापरिवर्जिताः
विमानवरमारूढाः सर्वे ते त्रिदिवं ययुः । प्रणमंतः स्तुवंतश्च पश्यंतस्तं प्रहर्षिताः
नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम् । सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता हि चित्रम्
नूनं विचित्रो भुवि भूतवर्गः संभूतभावो बहुधा विचित्रः । तथा विचित्रोऽखिलकर्मयोगस्तत्कर्मशक्तिप्रचयो विचित्रः