जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः । यम उवाच- इति दूतवचः श्रुत्वा स राजा करुणानिधिः
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः । कोमलं हृदयं नूनं साधूनां नवनीतवत्
वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् । राजोवाच- नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः । मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि
जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम् । पवित्रयंति जननीमवनीमपि ते नराः
परतापच्छिदो ये तु चंदना इव चंदनम् । परोपकृतये ये तु पीड्यंते कृतिनो हि ते
संतस्त एव ये लोके परदुःखविदारणाः । आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः । मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः
तस्मात्परसुखेनैव सुखिनः साधवः सदा । वरं निरयपातोऽत्र वरं प्राणवियोजनम्
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम् । दूता ऊचु- जंतवो निरये घोरे पच्यंते तेत्र पापिनः
स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते । यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम्
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम् । नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप
परस्मिन्निह घोरेषु पच्यंते निरयेषु ते । दुःशीला ये दुराचारा विहाराहारनिंदिताः
परापकारिणः पापकारिणो दुर्विहारिणः । विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये
निरये ते विपच्यंते ये परस्त्रीविहारिणः । एहि नूनं महीपाल गच्छामो हरिमंदिरम्
न ते पुण्यवता युक्तमिहस्था तु मतः परम् । राजोवाच- यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये
नारके पथि वा नीतः किं वा मे सुकृतं परम् । मयापि न कृतं तादृक्सुकृतं कामशालिना
कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै । दूता ऊचु- सुकृतं न कृतं सत्यं त्वया कामवशात्मना
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम् । किंतु माधवमासे यद्विधिना वत्सरत्रयम्
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया । भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः
महापापातिपापौघ निहंता भक्तवत्सलः । सर्वधर्मैकसारेण तेनैकेन नरेश्वर
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः । महतामपि पापानां निहंता माधवोऽर्चितः
तथैव माधवो मासो मर्त्यानां विधिनोदितः । यथैव विस्फुलिंगेन ज्वाल्यते तृणसंचयः
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते । तावद्वपुषि पापानि प्रभवंति महान्त्यपि
यावन्न माधवे मासि तीर्थे मज्जति चोषसि । वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत् । आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम्
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर । अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः
स्तूयमानो विमानेन गच्छ गोविंदमंदिरम्
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये । एकोत्तरशततमोऽध्यायः
यम उवाच- ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः । भूपतिः श्रीहरेर्दूतान्विनयेनाह वाडव