लोहतैलवसास्तंभ कूटशाल्मलसद्मसु । क्षुरकंटककीलोग्र ज्वालास्तंभविभातिषु
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक् । असिपत्रवनोत्कृत्त नरनारीस्तनेषु च
घोरांधकारग्रहणदारुणेषु मुहुर्मुहुः । पापच्यमानाः क्रंदंतो दारुणैर्विविधैर्वधैः
कंठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित् । पीड्यमानास्तथा यंत्रैः कृष्यमाणाश्च जानुभिः
भग्नपृष्ठशिरोग्रीवाः स्तब्धकंठाः सुदारुणाः । कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः
पीड्यंते पापिनो राजन्क्रंदमाना विकर्मिणः । सहितं विषयास्वादैः क्रंदनं तैर्विधीयते
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जंतुभिः । परस्त्रीषु कृतः संगः प्रीतये दुःखदो हि सः
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः । वपुषस्तव राजेंद्र प्रातःस्नानस्य माधवे
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः । लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव
आक्रंदरहितास्तेन जातास्ते निरये स्थिताः । नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम्
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः । यम उवाच- इति दूतवचः श्रुत्वा स राजा करुणानिधिः
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः । कोमलं हृदयं नूनं साधूनां नवनीतवत्
वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् । राजोवाच- नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः । मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि
जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम् । पवित्रयंति जननीमवनीमपि ते नराः
परतापच्छिदो ये तु चंदना इव चंदनम् । परोपकृतये ये तु पीड्यंते कृतिनो हि ते
संतस्त एव ये लोके परदुःखविदारणाः । आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः । मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः
तस्मात्परसुखेनैव सुखिनः साधवः सदा । वरं निरयपातोऽत्र वरं प्राणवियोजनम्
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम् । दूता ऊचु- जंतवो निरये घोरे पच्यंते तेत्र पापिनः
स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते । यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम्
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम् । नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप
परस्मिन्निह घोरेषु पच्यंते निरयेषु ते । दुःशीला ये दुराचारा विहाराहारनिंदिताः
परापकारिणः पापकारिणो दुर्विहारिणः । विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये
निरये ते विपच्यंते ये परस्त्रीविहारिणः । एहि नूनं महीपाल गच्छामो हरिमंदिरम्
न ते पुण्यवता युक्तमिहस्था तु मतः परम् । राजोवाच- यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये
नारके पथि वा नीतः किं वा मे सुकृतं परम् । मयापि न कृतं तादृक्सुकृतं कामशालिना
कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै । दूता ऊचु- सुकृतं न कृतं सत्यं त्वया कामवशात्मना
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम् । किंतु माधवमासे यद्विधिना वत्सरत्रयम्
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया । भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः