स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् । श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः
श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात्
स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम् । श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण
प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम् । नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः
दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम् । यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः
अथेतरेषु मासेषु कामिनीकुचकेलिवान् । भोगैकलालसो भूयो भवत्येवं यथारुचि
न धर्मनियमं राजकार्येषु न विचारणम् । करोति कामवशगो हित्वा मासं स माधवम्
महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः । शरीरसहजो नूनमनादिर्वासनाक्रमः
केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः । यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम्
घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम् । मोहधूममयः पापो न केषामंधकारितम्
इति श्रीपद्मपुराणेपातालखंडे वैशाखमासमाहात्म्ये शततमोऽध्यायः
यम उवाच- अथ कालकटाक्षेण लक्षितो नृपतिस्तदा । मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः । क्रन्दमानो महारावान्स स्मरन्निजपातकम्
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान् । धर्मवानयमित्युक्त्वा विमानमथ रोपितः
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः । प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः । देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा । अदूरादेव निरयवर्त्मना स समाहितः
स गच्छन्नपि शुश्राव जीवानां क्रंदतां पुनः । निरये पच्यमानानामारावं विविधं तदा
पापिनां क्वथ्यमानानामाक्रंदमतिदारुणम् । श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः
प्रोवाच दूताः किमयमाक्रंदो दारुणः श्रुतः । पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ
दूता ऊचु- जंतवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः । निरयेषु च घोरेषु तामिस्रादिषु पातिताः
कृतपातकिनस्त्वत्र प्राणत्यागादनंतरम् । याम्यं पंथानमाश्रित्य दुःखमश्नंति दारुणम्
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः । अंधकारे निपतिता भक्ष्यंते ह्यतिदारुणैः
श्वभिः शृगालैः क्रव्यादैः काककंकबकादिभिः । अग्नितुंडैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः
अग्निना दाह्यमानाश्च तुद्यमानाश्च कंटकैः । क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा । पूयशोणितगंधेन मूर्छ्यमानाः पदेपदे
क्वाथ्यंते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित् । आयसीषु प्रपच्यंते शिलासु क्वचिदेव च
क्वचिद्वांतमथाश्नंति क्वचित्पूयमसृक्क्वचित् । क्वचिद्विष्ठां क्वचिन्मांसं पूतिगंधिषु दारुणम्
कृमिभिर्भक्ष्यमाणाश्च वह्नितुंडैः क्वचित्क्वचित् । केशशोणितमांसासृग्वसास्थिनिकरेषु च
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम् । काककंकमहागृध्रवदनैर्ध्वंसितेषु च
शिवदुर्गंधनीरंध्र संघट्टशतकोटिषु । करपत्रशिलापत्रतप्त निस्तैलकेषु च