अहो मे मनसो मोहो येनात्मा योषितां कृते । पातितो व्यसने घोरे दुःखोदर्के दुरत्यये
भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते । उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि
पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् । त्वत्पादरजसा वापि विशेषादपि पावितः
विधिं माधवमासस्य ब्रूहि मे वदतां वर । सर्वपापक्षयकरो यस्त्वया परिकीर्तितः
किं दानं तत्र किं स्नानं को देवो नियमास्तु के । एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे
यम उवाच- इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः । प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम्
कश्यप उवाच- पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप । पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे
पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम् । विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोकमाचरेत्
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् । अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम्
सांप्रतं शुद्धहृदयो जातस्त्वं वचनान्मम । पुराचरितपुण्येन केनापि च महीपते
पापावस्थं शरीरं तद्गतं तव ममाश्रयात् । श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत्
पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् । अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम्
धर्माधर्मोपभोगाय तत्तृतीयमतींद्रियम् । तत्त्रिभेदं शरीरं हि धर्म्मविद्भिरिहोच्यते
यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम् । पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते
इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम । शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम्
तेनैव शुद्धिरमला जाता धर्मक्रियोचिता । दैवेन देहिनां नाम चेतांसि चरितानि च
शरीराणि च पुष्यंति कालेकाले विपर्ययम् । सांप्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते
तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम् । यम उवाच-। ततस्तु कारितस्तेन कश्यपेन पुरोधसा
स नृपो माधवे मासि स्नानं दानं च पूजनम् । यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम्
स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् । श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः
श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात्
स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम् । श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण
प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम् । नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः
दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम् । यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः
अथेतरेषु मासेषु कामिनीकुचकेलिवान् । भोगैकलालसो भूयो भवत्येवं यथारुचि
न धर्मनियमं राजकार्येषु न विचारणम् । करोति कामवशगो हित्वा मासं स माधवम्
महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः । शरीरसहजो नूनमनादिर्वासनाक्रमः
केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः । यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम्
घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम् । मोहधूममयः पापो न केषामंधकारितम्