अथांतरिक्षे वागुच्चैरिति जाता नृपोत्तम । सत्यं सत्यं सत्यमिदं संदेहोनात्र विद्यते
ततः स पक्षी विप्रर्षे सहसा भार्यया सह । गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत्
दिवि दुंदुभयो नेदुर्जगुर्गन्धर्वसत्तमाः । ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम्
विमानमागतं दिव्यं सर्वभोगसमन्वितम् । समायाता दूतगणाः प्रेषिताः कैटभद्विषा
अथासौ सर्वगो विप्र प्रियया सह भार्यया । सद्यो विमानमारुह्य जगाम भवनं हरेः
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम । सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत्
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये । यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात्
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम । समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि
अध्यायमेतत्परमादरेण पठंति ये देवगृहे मनुष्याः । शृण्वंति ये च द्विजवर्गभक्ता नश्यंति तेषां दुरितानि सद्यः
व्यास उवाच- पुनर्वक्ष्यामि विप्रेन्द्र गङ्गामाहात्म्यमुत्तमम् । गङ्गाकथासुधापानं कुरु मुक्तिं यदीच्छसि
दानं दत्तं तेन सर्वं तेन सर्वे मखाः कृताः । तेन प्रपूजितो विष्णुर्यद्भक्तिर्भीष्म मातरि
गङ्गायां धर्मकर्माणि क्रियंते यानि कानि च । अक्षयानि भवंत्यस्य तानि सर्वाणि जैमिने
वहंतं जलमालोक्य गाङ्गेयानि जलानि यः । भक्त्या गच्छेत्समुत्थाय सोऽश्वमेधसहस्रकृत्
गङ्गाजलेष्वागतेषु यो नो तिष्ठति भक्तितः । पशुता शाश्वती तस्य जन्मजन्मनि जैमिने
गाङ्गेयं जलमासाद्य यो न गृह्णाति भक्तितः । जन्मकोट्यर्जितं पुण्यं क्षणादेव तु नश्यति
गङ्गातीरं जिगमिषुं यस्तु वारयते द्विज । स कोटिकुलसंयुक्तो रौरवं नरकं व्रजेत्
मूत्रं वाथ पुरीषं वा गंगातीरे करोति यः । न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि
श्लेष्माणं वापि निष्ठीवं दूषिकां वाश्रु वा मलम् । गंगातीरे त्यजेद्यस्तु स नूनं नारकी भवेत्
उच्छिष्टं कफकं चैव गङ्गागर्भे च यस्त्यजेत् । स याति नरकं घोरं ब्रह्महत्यां च विंदति
गङ्गारोधसि यः पापं कुरुते मूढधीर्नरः । तदक्षय भवेन्नूनं नान्यतीर्थेषु शाम्यति
अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति । गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते
तस्मात्पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः । कर्मणा मनसा वाचा कर्तव्यो धर्मसंग्रहः
न ते देशा न ते शैला न च तानि वनानि च । पापविध्वंसिनी यत्र न तिष्ठेत्सुरनिम्नगा
गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने । न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि
भिक्षान्नमपि भुक्त्वा च स्थातव्यं जाह्नवीतटे । न चान्यत्र क्षणमपि प्राप्य भूपालतामपि
संत्यज्य देहं गङ्गायां ब्रह्महापि विमुच्यते । अन्यत्र मुक्तये न स्यादश्वमेधसहस्रकृत्
गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेत् । जन्मजन्मांतरे येन कदाचिन्नार्चितो हरिः
भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि । श्रूयतां मानवाः सर्वे भूयोभूयो ब्रवीम्यहम्
स्नानं विधाय गङ्गायां गम्यतां परमं पदम् । मृत्युकाले भजेद्यस्तु गङ्गागङ्गेति मानवः
विमुक्तःपातकैः सर्वैर्दिवि देवयुगायुतम् । यस्य गङ्गाकथारम्भो मृत्युकाले भवेद्द्विज