दीपदः कांतिमाप्नोति दीपदो धनमक्षयम् । दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम्
दीपदानाच्च सौभाग्यं विद्यामत्यंतनिर्मलाम् । आरोग्यं परमामृद्धिं लभते नात्र संशयः
दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम् । पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षया लभेत्
ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम् । वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात्
कुमारी चापि भर्तारं सर्वलक्षणसंयुतम् । प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.
वैधव्यं नैव युवती कदाचिदपि पश्यति । न वियोगमवाप्नोति दीपदानप्रभावतः
नाधयो व्याधयश्चैव जायंते दीपदानतः । भयात्प्रमुच्यते भीतो बद्धो मुच्येत बंधनात्
ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः । मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा
चांद्रायणानि कृच्छ्राणि चरितानि न संशयः । येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः
ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् । यैः संपूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः
येऽपि संवर्त्तयंतीह दीपवर्तिविलोकनाः । ते यांति परमं स्थानं यत्सुरैरपि दुर्लभम्
येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके । प्रक्षेपयंति सततं ते यांति परमां गतिम्
गच्छंतं दीपकं शांतिं न शक्नोति प्रबोधितुम् । कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः
स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च । करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते
दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः । कृतांजलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात्
दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम् । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
अत्राप्युदाहरंतीममितिहासं पुरातनम् । यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः
सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः । तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित्
व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा । भिक्षावृत्त्या च कुरुते कुटुंब परिपालनम्
व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ । विष्णुं संपूज्य विधिवद्दीपं बोधयते सदा
समादाय च तत्तैलं स्वगृहे पूज्य केशवम् । दीपं भक्त्या च परया बोधयेद्धरितुष्टये
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः । मार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा
तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् । कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः
भक्षिता बहवस्तेन मूषका द्विजवेश्मनि । ये ये तैलार्थमायांति वर्त्यपाहरणाय च
तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः । एवं प्रवर्तमानस्य कदाचित्कालपर्ययात्
एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः । सोपवासः सपत्नीकः पूजयामास चाच्युतम्
ततो जागरणं चक्रे स्तुतिनृत्यपरायणः । अर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः
मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः । लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा
अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् । मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम्
समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत् । तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम्