वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम् । पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि
एकतः सर्वपुण्यानि पापनाशाय पापिनाम् । एकतो माधवे मासो माधवस्यप्रियः सदा
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः । महांति पातकान्येव कीर्तितानि मुनीश्वरैः
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः । नाशयेन्माधवो मासः सर्वं पापतमो महत्
दिवाकर इव ध्वांतं नाशयेन्नृपसर्वशः । तथा श्री माधवोमासस्तमाचर विधानतः
आजन्मनोऽपि विहितानि महांति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः । वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभंते
यद्येकमपि वैशाखमाचरंति विधानतः । भावतः पापिनोऽप्यंते प्रयांति हरिमंदिरम्
तस्मात्त्वमपि राजेंद्र मासेऽस्मिन्माधवेधुना । प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम्
तंडुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यंति क्रियया वीर पुरुषस्य तथा मलः
जीवस्य तंडुलस्येव सहजोऽपि मलो महान् । नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नवनवतितमोऽध्यायः
श्रीराजोवाच- क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः । तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः
असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् । त्वयाहं पायितः सौम्य भवरोगनिवारणम्
हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम् । जरामृत्युहरो विप्र सद्भिः किल समागमः
यानि यानि दुरापानि वांछितानि महीतले । प्राप्यंते तानि तान्येव साधूनामेव संगमात्
यः स्नातः पापहरया साधुसंगम गंगया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः
निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम् । संतो धर्मविदः शांता नौर्दृढे वाप्सुमज्जताम्
यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः । दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो
एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् । प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मना
हाहा कामरसास्वाद सुखलालसचेतसा । मया मूढेन न कृतं किंचिदात्महितं द्विज
अहो मे मनसो मोहो येनात्मा योषितां कृते । पातितो व्यसने घोरे दुःखोदर्के दुरत्यये
भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते । उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि
पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् । त्वत्पादरजसा वापि विशेषादपि पावितः
विधिं माधवमासस्य ब्रूहि मे वदतां वर । सर्वपापक्षयकरो यस्त्वया परिकीर्तितः
किं दानं तत्र किं स्नानं को देवो नियमास्तु के । एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे
यम उवाच- इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः । प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम्
कश्यप उवाच- पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप । पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे
पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम् । विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोकमाचरेत्
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् । अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम्