स्थानं न लभते वीर्यं चंचलत्वेन वर्तते । प्राणिनां हि कपालेषु कृमयः संति पंच वै
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः । कनिष्ठांगुलिमानेन रक्तपुच्छाश्च भूपते
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः । तेषां नामानि भद्रं ते मत्तो निगदतः शृणु
पिङ्गली शृंगली नाम द्वौ कृमी कर्णमूलयोः । शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ
कृमीणां शतपंचाशत्तादृग्भूता न संशयः । ललाटांतः स्थिताः सर्वे राजिकायाः प्रमाणतः
कपालरोगिणः सर्वे कुर्वंति न संशयः । अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः
सतंडुलप्रमाणेन तद्वद्वर्णेन संशयः । केशद्वयं मुखे तस्य विद्यते शृणु भूपते
प्राणिनां संक्षयाबुद्धिस्तत्क्षणाद्धि न संशयः । स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे
तद्वीर्यं रसरूपेण पतते नात्र संशयः । सुखेन पिबते वीर्यं तेन मत्तः प्रजायते
तालुस्थानं प्रभेद्यैव चंचलत्वेन वर्त्तते । इडा च पिंगला नाडी सुषुम्ना तत्र संस्थिताः
स्वबलेनापि तस्यैव कंपिता नाडिका क्षणम् । कामकंडूर्भवेद्राजन्सर्वेषां प्राणिनां किल
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते । स्त्रीनरौ च प्रमत्तौ तौ गच्छतः संगमं ततः
कायेन कायं संघृष्य मैथुनेन हि जायते । क्षणमात्रं सुखं तत्र पुनः कंडूश्च तादृशी
सर्वत्र दृश्यते वीर भाव एवंविधः किल । विरसः परिपाकोऽयं विषयस्य न संशयः
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः । धैर्यमालंब्य च ततो धर्ममेव समाचर
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते । जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलंबम्
दशमीमपि यातस्य चेतो नाद्यापि भूपते । विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम्
न जातुकामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः । आत्मारामेश्वरमृते भगवंतं च माधवम्
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात् । वयस्तेऽप्यधुना भूप समाचर हितं निजम्
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम् । पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि
एकतः सर्वपुण्यानि पापनाशाय पापिनाम् । एकतो माधवे मासो माधवस्यप्रियः सदा
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः । महांति पातकान्येव कीर्तितानि मुनीश्वरैः
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः । नाशयेन्माधवो मासः सर्वं पापतमो महत्
दिवाकर इव ध्वांतं नाशयेन्नृपसर्वशः । तथा श्री माधवोमासस्तमाचर विधानतः
आजन्मनोऽपि विहितानि महांति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः । वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभंते
यद्येकमपि वैशाखमाचरंति विधानतः । भावतः पापिनोऽप्यंते प्रयांति हरिमंदिरम्
तस्मात्त्वमपि राजेंद्र मासेऽस्मिन्माधवेधुना । प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम्
तंडुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यंति क्रियया वीर पुरुषस्य तथा मलः
जीवस्य तंडुलस्येव सहजोऽपि मलो महान् । नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु