नैव स्थिराणि तानीह दुरितैरनुसेवितैः । विलीयंते यथा वह्निसंसर्गेणेंधनानि च
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत एव सः
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः । किंतु त्वासन्नविपदामुपदेशाः शिरोरुहाः
विषयज्वरमुत्सृज्य समया स्वस्थया धिया । युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते
अशुभाच्चलितं याति शुभं तस्मादपीतरम् । जंतोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात्
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम् । नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत्
न धनान्युपकुर्वंति न मित्राणि न बांधवाः । न हस्तपादचलनं न देशांतरसंगतम्
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः । केवलं तन्मनस्कस्य जपेनासाद्यते पदम्
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे । यत्नं कुर्याद्बुधो राजन्ध्रुवं यंतेव वाजिनाम्
तत्तत्कुर्याद्यतो राजन्भवता येन वंचितः । मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः । ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम्
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः । श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान् । न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः
यः कामो देवदेवेन पुरा तेनैव शूलिना । ललाटवह्निना दग्धः कृतोनंग इति स्थितिः
यदा वांछत्यसौ नारीं निहंतुं समनोभवः । पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ
चिंत्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः । तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ
तथैवोन्मादयत्येष योषिदंगं न संशयः । स्मरः संस्मरणान्नाम जातं तस्य ततो नृप
यादृशस्तादृशो रंगो वस्त्रं वीरसमाश्रयेत् । आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत्
नार्यारूपं समारुह्य धीरं तमपि मोहयेत् । पुरुषं तु समाश्रित्य द्रावयत्येष योषितम्
स एव सहजो राजन्नशरीरी शरीरगः । शरीरकस्यापि विभो कथं पापं विधीयते
यं प्राप्यातिपवित्राणि पंचगव्यहवींषि च । अशुचित्वं क्षणं यांति कोऽन्य स्यादशुचिस्ततः
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् । न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम्
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च । अशुचित्वं प्रयांत्याशु कोऽन्यस्यादशुचिस्ततः
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत् । कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल
तथापि देहे भूपाल निजरूपं परित्यजेत् । शुनतां याति वै पश्चात्कृमिदुर्गंधिसंकुले
जायंते तत्र वै यूकाः कृमयो वा न संशयः । सकृमिः कुरुते स्फोटं कंडूश्च परिदारुणः
व्यथामुत्पादयेद्भूयः सर्वांगं परिचालयेत् । नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते
तद्वत्सुखं भवत्येव सुरतस्य न संशयः । भुंजत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः
तत्रस्थं पचते वह्निरपाने पातयेन्मलम् । सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च । आकृष्टः स समानेन नीतस्तेनापि वायुना