किं विद्यया च तपसा किं त्यागेन नयेन वा । किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः । सर्वमन्यच्छरीरेण समं नाशं गमिष्यति
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः । धर्मेण हि सहायेन तमस्तरति दुस्तरम्
अनिलोल्लासितोत्ताल जलकल्लोल चंचलम् । किं न जानासि राजेंद्र नृणां जीवित विभ्रमम्
विनयो रत्नमुकुटः सत्यधर्मौ च कुंडले । त्यागश्च कंकणो येषां किं तेषां जडमंडनैः
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि । विमुखा बांधवा यांति धर्मस्तमनुगच्छति
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि । जीविते लुप्यमाने च किमुत्थाय न धावसि
कुटुंबं पुत्रदारादि शरीरं द्रव्यसंचयः । पारक्यमध्रुवं किंतु स्वीये सुकृतदुष्कृते
यदा सर्वं परित्यज्य गंतव्यमवशेन ते । अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि
अविश्राममनालंबमपाथेयमदेशिकम् । मृतः कांतारमध्वानं कथमेको गमिष्यसि
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति । सुकृतं दुष्कृतं च त्वां यास्यंतमनुयास्यति
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम् । धर्ममूलं निषेवस्व सदाचारमतंद्रितः
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ । धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम्
इंद्रियाणां जयं योगं समातिष्ठेद्दिवानिशम् । जितेंद्रियो हि शक्नोति पथि स्थापयितुं प्रजाः
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः । विनये प्रणिधानेन चिरं तिष्ठंति भूभुजाम्
कामदर्पादिशीलानामविचारित कारिणाम् । आयुषा सह नश्यंति संपदो मूढचेतसाम्
भूतिभिर्नष्टदृष्टाभिर्नृत्यंते न महाशयाः । नागताभिर्न याताभिर्नदीभिश्चीयतेंबुधिः
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः
व्यसनानि दुरंतानि कामजानि विशेषतः । त्यज तस्मान्महाराज कामं धर्मविरोधिनम्
जडानामविवेकानामसुराणां दुरात्मनाम् । भाग्यभोग्यानि राज्यानि संत्यनीतिमतामपि
नैव स्थिराणि तानीह दुरितैरनुसेवितैः । विलीयंते यथा वह्निसंसर्गेणेंधनानि च
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत एव सः
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः । किंतु त्वासन्नविपदामुपदेशाः शिरोरुहाः
विषयज्वरमुत्सृज्य समया स्वस्थया धिया । युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते
अशुभाच्चलितं याति शुभं तस्मादपीतरम् । जंतोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात्
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम् । नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत्
न धनान्युपकुर्वंति न मित्राणि न बांधवाः । न हस्तपादचलनं न देशांतरसंगतम्
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः । केवलं तन्मनस्कस्य जपेनासाद्यते पदम्
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे । यत्नं कुर्याद्बुधो राजन्ध्रुवं यंतेव वाजिनाम्
तत्तत्कुर्याद्यतो राजन्भवता येन वंचितः । मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना