यस्तु श्रोष्यति भक्त्यैनमितिहासं मयोदितम् । सोऽपि पापविनिर्मुक्तो न मामालोकयिष्यति
ब्रह्महत्यादि पापानि बहुशोऽपि कृतान्यपि । वैशाखस्य विधानेन तानि नश्यंति निश्चितम्
त्रिंशत्पूर्वान्परांस्त्रिंशत्त्रिंशच्चैव परावरान् । वैशाखे विधिना स्नातो नरकादुद्धरेत्पितॄन्
एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः । एकतो माधवो मासो नियमादनुपालितः
यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः । प्रियोऽसौ माधवोमासः सर्वेभ्यः प्रवरोऽधिकः
संशयं नो विधेहीति महीदेव कथंचन । वैशाखं प्रति वै मासं समासाद्यन्मयोदितम्
इहार्थे यत्पुरावृत्तं तदाकर्णय चाद्भुतम् । अनाख्येयमपीदं ते कथयिष्ये कथानकम्
यम उवाच- बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः । पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसंपदः
केवलं कामकलना ललना ललितस्थितः । तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः
मंत्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः । स कामिनी सहचरो राज्यकार्यपराङ्मुखः
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति । केवलं कामिनीकेलि कलनोचितवासनः
अथ कालेन महता पुरोधास्तस्य कश्यपः । वचः प्रोवाच तं धर्म्यमिति चेतस्यचिंतयत्
न वारयति यो मोहादधर्मान्नृपतिं गुरुः । सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः । पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक्
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम् । अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम्
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः । गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया । न व्रतं न तपः किंचिन्न तीर्थं हि कृतं त्वया
हरिनाम त्वया कामवशगेन न चिंतितम् । हा त्वया भीरुसंगत्या न विद्वत्संगतिः कृता
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः । किंतु ताः पवनोल्लोलकदलीदलवच्चलाः
तरंगतरलैरर्थैर्भोगैर्भ्रूभंगभंगुरैः । मुहूर्तपेयैस्तारुण्यैर्न तृप्यंते महाशयाः
किं विद्यया च तपसा किं त्यागेन नयेन वा । किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः । सर्वमन्यच्छरीरेण समं नाशं गमिष्यति
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः । धर्मेण हि सहायेन तमस्तरति दुस्तरम्
अनिलोल्लासितोत्ताल जलकल्लोल चंचलम् । किं न जानासि राजेंद्र नृणां जीवित विभ्रमम्
विनयो रत्नमुकुटः सत्यधर्मौ च कुंडले । त्यागश्च कंकणो येषां किं तेषां जडमंडनैः
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि । विमुखा बांधवा यांति धर्मस्तमनुगच्छति
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि । जीविते लुप्यमाने च किमुत्थाय न धावसि
कुटुंबं पुत्रदारादि शरीरं द्रव्यसंचयः । पारक्यमध्रुवं किंतु स्वीये सुकृतदुष्कृते
यदा सर्वं परित्यज्य गंतव्यमवशेन ते । अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि
अविश्राममनालंबमपाथेयमदेशिकम् । मृतः कांतारमध्वानं कथमेको गमिष्यसि