पौराणिक विधानेन कर्म श्रौताविरोधि यत् । केवलं वैदिकं कर्म कृतमज्ञानतो मया
पापेंधन दवज्वाला पापद्रुमकुठारिका । कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः । दशजन्मानि च ततस्तिर्यग्योनिषु जायते
चिरं भुक्त्वा दुःखमंते प्रेतः पर्यायतो भवेत् । लभते मानुषं जन्म कथंचिदपि दुर्लभम्
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम् । श्रुतवान्यदहंपूर्वजन्मनिस्वगुरोर्मुखात्
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः । अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता । पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुंभान्नफलानि भक्त्या । दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम्
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः । सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश । पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् । दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत्
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना । तिला देयाश्च भक्त्या च स्पृश्याः सर्वांगतो द्विज
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वांगतस्तदा । तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम्
प्रीतये धर्मराजस्य यो दद्यादुदकुंभकान् । सप्तसप्त कुलं तेन तारितं स्यान्न संशयः
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः । स्नात्वा जप्त्वा तथा हुत्वा दत्वा संपूज्य माधवम्
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः । नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः । यम उवाच- तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत् । स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम्
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक् । तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम । धनशर्मापि विप्रेंद्र श्रुःतिस्मृतिपुराणवित्
भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान् । एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी
कथ्यते तु मया विप्र समासेनातिगौरवात्
धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः । ये माधवे मधुनिषूदनमर्चयंति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः
यो माधवे मासि नरः प्रभाते स्नातः समाराधयते रमेशम् । यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहंति पापम्
तैरेवकालो विजितस्त एव नरेषु धन्या विगतैनसस्ते । त एव गर्भे न विशंति भूयो मज्जंति ये माधवमासि युक्ताः
स माधवो गर्जति यज्ञयोगात्तपः क्रिया दानविधान योगात् । यस्मिन्कृतं मासि कथंचिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम्
मज्जतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये । तामसोपि जलबिंदुसंगमादंगमावहति पावनं यतः
तानि देहमधिरुह्य देहिनस्तावदेव विचरंत्यघानि च । यावदेति न स माधवाह्वयः श्रीरमारमणवल्लभो विराट्
मेरुमंदरतुल्यानि पापान्युग्राण्यनेकशः । दहते माधवो मासः स्नातो माधववल्लभः
इदं संक्षेपतः प्रोक्तं मया तेऽनुग्रहाद्द्विज । वैशाखस्नानमाहात्म्यं श्रोतुः पापक्षयं करम्