यम उवाच- प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः । स तं जनकमाज्ञाय पतितं निरये निजम्
आत्मानमभितो निंदन्निदं वचनमब्रवीत् । धनशर्मोवाच- अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतंद्रितः । आत्मानं पावयेन्नासावदाता द्रव्यवानिति
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता । यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम्
यदा च सुखसंतानं न मत्तः प्राप्तवानसि । लोकयोः सुखसंताने तथा स तनयो मतः
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः । तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात्
किं करोमि क्व गच्छामि कथं तातगतिस्तव । धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः
प्रेत उवाच- शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात् । अथ पुण्येन केनापि भवित्री सुगतिर्मम
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः । अनादृतं गुरुवचो गुरुस्तत्रावमानितः
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः । पुण्यानि क्षयमायांति यशांसीव हि दुर्नयैः
पौराणिक विधानेन कर्म श्रौताविरोधि यत् । केवलं वैदिकं कर्म कृतमज्ञानतो मया
पापेंधन दवज्वाला पापद्रुमकुठारिका । कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः । दशजन्मानि च ततस्तिर्यग्योनिषु जायते
चिरं भुक्त्वा दुःखमंते प्रेतः पर्यायतो भवेत् । लभते मानुषं जन्म कथंचिदपि दुर्लभम्
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम् । श्रुतवान्यदहंपूर्वजन्मनिस्वगुरोर्मुखात्
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः । अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता । पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुंभान्नफलानि भक्त्या । दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम्
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः । सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश । पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् । दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत्
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना । तिला देयाश्च भक्त्या च स्पृश्याः सर्वांगतो द्विज
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वांगतस्तदा । तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम्
प्रीतये धर्मराजस्य यो दद्यादुदकुंभकान् । सप्तसप्त कुलं तेन तारितं स्यान्न संशयः
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः । स्नात्वा जप्त्वा तथा हुत्वा दत्वा संपूज्य माधवम्
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः । नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः । यम उवाच- तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत् । स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम्
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक् । तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम । धनशर्मापि विप्रेंद्र श्रुःतिस्मृतिपुराणवित्