भवतामपि सश्रेयो नूनं दास्यति केशवः । ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकंपया
अतसीपुष्पसंकाशो विष्णुः पीतांबरो हरिः । यस्य श्रवणमात्रेण नाम्नो याति महा तमः
अनादिनिधनो देवः शंख चक्र गदाधरः । अक्षयः पुंडरीकाक्षः प्रेतमोक्षप्रदायकः
यम उवाच- नामश्रवण मात्रेण विष्णोस्ते परितोषिताः । पिशाचाः पुण्यभावस्था दया दाक्षिण्य यंत्रिताः
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः । इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः
प्रेता ऊचु- दर्शनेनैव ते विप्र नामश्रवणतो हरेः । भावमन्यमनुप्राप्ता वयं जाता दयालवः
अपाकरोति दुरितं श्रेयश्च योजयत्यपि । यशो विस्तारयत्याशु नूनं वैष्णवसंगमः
रसायनमयी शीता परमानंददायिनी । नानंदयति कं नाम वैष्णवामृतचंद्रिका
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः । अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत्
सदैवानुष्ठितानेन पापेनाति कृतघ्नता । तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम्
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि । कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च । निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः
नानानिरयसंघातं शरीरैर्यातना क्षमैः । अनुभूयतांत्ववस्थामंत्यामेतां गतो द्विज
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम् । अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः । हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि
रोषाहंकारनास्तिक्यैर्गुर्वाज्ञालंघनोद्यतः । अकृत्वैव महायज्ञान्भुक्तवान्विप्र निंदकः
कर्मणा तेन पापेन महानरकसंकटम् । अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत् । तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम् । विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि
मया केवलमेवैकं श्रौतमार्गानुसारिणा । उद्दिश्य माधवं देवं न स्नातं मासि माधवे
न दत्तं न हुतं किंचिद्वैशाख्यां चाविशेषतः । नार्चितो मधुहा तत्र तोषिता न मनीषिणः
मणिकोदककुंभैश्च न दानैः पितृदेवताः । तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च
न पुष्पफलतांबूल चंदन व्यजनांबरैः । विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा । स्नानदानक्रियापूजा सुकृतैः परिपालिता
तेन मे वैदिकं कर्म सर्वं चैव तु निष्फलम् । ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः
एतत्ते सर्वमाख्यातं त्रयाणामपि कारणम् । त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः । तारयंति महापापान्निरयेभ्योऽपि संश्रितान्
गंगादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा । यः करोति सतां संगं तयोः सत्संगमो वरः
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः । तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते । पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम्