ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया । एषा वाराहकल्पादि तिथिराद्या महाफला
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ । हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः । क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे
ततः प्रभृति विप्रेंद्र विशेषादेव पूर्णिमा । कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी
येन स्नानं न वैशाखे प्रातर्नियमशालिना । किं तस्य जन्मना विप्र नूनमात्मापकारिणा
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः । अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते । स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता
यस्यातीता च वैशाखी स नूनं निरयालयः । न वेदेन समं शास्त्रं न तीर्थं गंगया समम्
न दानं जलगोतुल्यं न वैशाखी समा तिथिः । जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः । मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः
जलधेनुं समालोक्य मुच्यते सर्वपातकैः । दशपूर्वान्परान्वंश्यान्नरकात्तारयंतिते
जलधेनुं प्रयच्छंति वैशाख्यां विधिनात्र ये । शर्करा फल तांबूलमुपानत्करपत्रिकाः
प्रयच्छंति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः । मणिकोदककुंभांश्च पक्वान्नं हैमदक्षिणाम्
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत् । अत्राप्युदाहरंतीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने । ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम् । भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान्
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदंतान्कृशोदरान् । कुर्वतो विविधा रावान्धावतोपि यतस्ततः
तान्दृष्ट्वा भयसंत्रस्तो ब्राह्मणो विद्रुतो जवात् । क्रंदमानास्ततस्तेपि तमेवानु ययुस्तदा
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः । धनशर्मोवाच- के यूयं वः कुतोऽवस्था जातेति निरयोचिता
भयार्त्तमनुकंप्यं मां दुःखितं त्रातुमर्हथ । वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम्
भवतामपि सश्रेयो नूनं दास्यति केशवः । ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकंपया
अतसीपुष्पसंकाशो विष्णुः पीतांबरो हरिः । यस्य श्रवणमात्रेण नाम्नो याति महा तमः
अनादिनिधनो देवः शंख चक्र गदाधरः । अक्षयः पुंडरीकाक्षः प्रेतमोक्षप्रदायकः
यम उवाच- नामश्रवण मात्रेण विष्णोस्ते परितोषिताः । पिशाचाः पुण्यभावस्था दया दाक्षिण्य यंत्रिताः
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः । इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः
प्रेता ऊचु- दर्शनेनैव ते विप्र नामश्रवणतो हरेः । भावमन्यमनुप्राप्ता वयं जाता दयालवः
अपाकरोति दुरितं श्रेयश्च योजयत्यपि । यशो विस्तारयत्याशु नूनं वैष्णवसंगमः
रसायनमयी शीता परमानंददायिनी । नानंदयति कं नाम वैष्णवामृतचंद्रिका
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः । अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत्
सदैवानुष्ठितानेन पापेनाति कृतघ्नता । तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम्