सूत उवाच- एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः । पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम्
ब्राह्मण उवाच- धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् । माधवस्नानजं पुण्यं नराणां मुक्तिदं परम्
माधवं माधवे मासि स्नात्वा प्रातः समाहितः । कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद
धर्मराज उवाच- सर्वेषां पत्रजातीनां तुलसी केशवप्रिया । पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा
वासुदेवादयो देवा वसंति तुलसीदले । सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम् । गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत्
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् । अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति । दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि
तुलसी हरते क्षिप्रं रोगानिव हरीतकी । तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम्
विशेषेण हरेर्भक्तो नरो नारायणो भवेत् । माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः
त्रिसंध्यं मधुहंतारं नास्ति तस्य पुनर्भवः । अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत्
शालितंडुल गोधूमैर्यवैर्वापि हरिं सदा । प्रातः स्नात्वा विधानेन माधवे माधवप्रिये
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम् । योऽश्वत्थमूलं वै सिंचेत्तोयेन बहुना सदा
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः । योऽश्वत्थमर्चयेद्देवमुदकेन समंततः । कुलानामयुतं तेन तारितं स्यान्नसंशयः
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् । अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः । योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चंदनमर्कबिंबम् । अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान्
कंडूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम् । कृत्वा गोविंदपूजां च न स दुर्गतिमाप्नुयात्
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् । सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः । विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश । त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् । दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत्
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम् । मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः
पाकान्नोदक कुंभादि पितृदैवत तुष्टये । त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम्
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते । सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम्
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति । वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना
तिला देयाश्च भक्त्या च श्रेयः संतति हेतवे । इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत
फलं माधवमासस्य पूर्णायां परमाद्भुतम् । मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः । विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः