द्वादशैता महानद्यो नित्यं तेनावगाहिताः । वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत्
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः । सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः । स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत्
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते । यदि वक्त्रसहस्राणां सहस्राणि भवंति हि
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम । तदा माधवमासस्य फलं कथयितुं भवेत्
महानिरयकर्षाग्नि माधवो माधवो यथा । ब्रह्महत्यादिकं पापमगम्यागमनादिकम्
कामाकामकृतं पापमेति पातकमेव च । उपपापरहस्यं च संकरीकरणं परम्
जातिभ्रंशकरं घोरमपात्रीकरणं तथा । मलावहं प्रकीर्णं च वाङ्मनः काय संभवम्
माधवो निर्दहेन्मासो विधिना समुपासितः । कल्पकोटिसहस्राणि कल्पकोटि शतानि च
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम्
सूत उवाच- एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः । पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम्
ब्राह्मण उवाच- धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् । माधवस्नानजं पुण्यं नराणां मुक्तिदं परम्
माधवं माधवे मासि स्नात्वा प्रातः समाहितः । कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद
धर्मराज उवाच- सर्वेषां पत्रजातीनां तुलसी केशवप्रिया । पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा
वासुदेवादयो देवा वसंति तुलसीदले । सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम् । गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत्
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् । अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति । दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि
तुलसी हरते क्षिप्रं रोगानिव हरीतकी । तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम्
विशेषेण हरेर्भक्तो नरो नारायणो भवेत् । माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः
त्रिसंध्यं मधुहंतारं नास्ति तस्य पुनर्भवः । अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत्
शालितंडुल गोधूमैर्यवैर्वापि हरिं सदा । प्रातः स्नात्वा विधानेन माधवे माधवप्रिये
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम् । योऽश्वत्थमूलं वै सिंचेत्तोयेन बहुना सदा
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः । योऽश्वत्थमर्चयेद्देवमुदकेन समंततः । कुलानामयुतं तेन तारितं स्यान्नसंशयः
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् । अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः । योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चंदनमर्कबिंबम् । अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान्
कंडूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम् । कृत्वा गोविंदपूजां च न स दुर्गतिमाप्नुयात्
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् । सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः । विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते