तच्च दुर्गतिदं नॄणामिहलोके परत्र च । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः । यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः
स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात् । विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज
तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु । कीर्त्यते हयमेधादि महाक्रतुफलप्रदः
तीर्थस्नान तपो दान जप यज्ञफलाधिकः
स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये । कुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति
हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम् । स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात्
इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम् । निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत्
भागीरथीनर्मदा च यमुना च सरस्वती । विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः
गोदावरी भीमरथी तुंगभद्रा च देविका । तापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः
द्वादशैता महानद्यो नित्यं तेनावगाहिताः । वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत्
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः । सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः । स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत्
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते । यदि वक्त्रसहस्राणां सहस्राणि भवंति हि
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम । तदा माधवमासस्य फलं कथयितुं भवेत्
महानिरयकर्षाग्नि माधवो माधवो यथा । ब्रह्महत्यादिकं पापमगम्यागमनादिकम्
कामाकामकृतं पापमेति पातकमेव च । उपपापरहस्यं च संकरीकरणं परम्
जातिभ्रंशकरं घोरमपात्रीकरणं तथा । मलावहं प्रकीर्णं च वाङ्मनः काय संभवम्
माधवो निर्दहेन्मासो विधिना समुपासितः । कल्पकोटिसहस्राणि कल्पकोटि शतानि च
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम्
सूत उवाच- एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः । पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम्
ब्राह्मण उवाच- धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् । माधवस्नानजं पुण्यं नराणां मुक्तिदं परम्
माधवं माधवे मासि स्नात्वा प्रातः समाहितः । कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद
धर्मराज उवाच- सर्वेषां पत्रजातीनां तुलसी केशवप्रिया । पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा
वासुदेवादयो देवा वसंति तुलसीदले । सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम् । गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत्
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् । अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति । दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि
तुलसी हरते क्षिप्रं रोगानिव हरीतकी । तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम्
विशेषेण हरेर्भक्तो नरो नारायणो भवेत् । माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः