ममैव पुंसः पितरौ तौ च पापपरायणौ । मुखरौ दययाहीनौ पाखंडिसङ्ग लोलुपौ
पौरुषं जीवनं चैव धनं चैव कुलं तथा । विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम्
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः । अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया । विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ
एताभ्यां सह पापाभ्यां सदारेण मया नृप । स्थितं च नरके घोरे यावत्कालं शृणुष्व तत्
युगकोटिसहस्राणि युगकोटिशतानि च । अनुभूतं महादुःखं नरकस्य नृपोत्तम
नरकांते ततः सोऽहं कांतया सह भूपते । गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा
एतावपि च तौ राजन्नरकांत गतैषिणौ । जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः
यदेताभ्यां कृतं कर्म्म राजञ्छलभजन्मनि । तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम्
एकदा सुमहान्वायुः समायातो महीपते । उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा । जग्मतुः पंचतां सद्यः समस्तकलुषापहम्
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः । आयातानि विमानानि सर्वभोगान्वितानि च
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ । दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः । ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति
भुक्तवंतौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि । तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुंधराम्
पवित्रे भवतो वंशे जातावेतौ महायशौ । गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ । चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम् । नारायणस्य सायुज्यमिमौ भूप गमिष्यतः
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तांतमेतयोः । जातिस्मरप्रभावेन नृपवर्गशिरोमणी
गङ्गामरणमासाद्य गतावेतौ दशामिमाम् । आवयोः कः परित्राणं करिष्यति दुरात्मनोः
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी । ममैव पृथिवीपाल दृष्टा केवलमेवतत्
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा । इह संपद्विनाशाय परत्र नरकाय च
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम् । कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम् । पित्रवज्ञाकुठारेण च्छिंदंति भुवि मानवाः
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परंतप । तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः
प्रत्यक्षदेवौ पितरौ सेवंते येत्वहर्निशम् । सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः
पितृभक्तिविहीना ये दिनं तिष्ठंति मानवाः । तावत्कल्पसहस्रं तु तिष्ठंति नरके जनाः
तस्मादिदं महादुःखं बभूव मम सांप्रतम् । मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत्
व्यासउवाच- एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम । बभूव हर्षितो राजा विस्मितश्च पुनः पुनः
राजोवाच- आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव । मम चैषां च हृदये प्रतीतिर्न हि जायते