कालेन कियता वेश्या सा मृता धर्मनिष्ठिता । देवदासोऽपि स ततो मृतः स्वीयायुषक्षये
तेन पुण्येन भूपाल हेमकारोऽन्य जन्मनि । स त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः
सापि रूपवती वेश्या तेन धर्मेण तेऽभवत् । नाम्ना कांतिमती कांता प्रणयेन परिप्लुता
विविधा वासना वीर कर्मणां पूर्वसंभवाः । विचित्रा गतयस्तात ज्ञायंते न बुधैरपि
तमेनं माधवं मासं प्रतिकार्यं न संशयः । गोपितं तेन देवेन ब्रह्मणा माधवेन च
असाधुसंगैरनवाप्तविद्यैरसंयतैराश्रमधर्महीनैः । अभूततीर्थैरकृतव्रतैस्तैर्न लभ्यते माधवमासधर्मः
गोविंदकेशवमुकुंदहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्ण विष्णो । वाणी वरा न वदने वसतीति येषां वैशाखमासनियमो भवते न तेषाम्
ये साधुसाधु वचनानि हिताधिकानि नाकर्णयंति च हरेश्चरितामृतानि । पश्यंति ये न कमलापतिकेतनानि वैशाखमासनियमं न हि ते लभंते
शुश्रूषिता न गुरवो न वराय कन्या दत्ता समाय समये समलंकृता यैः । अध्यापिता न तनया विनयादि धर्मं वैशाखमासनियमं न हि ते लभंते
सूत उवाच- इत्येवमादिश्य मुनिर्नरेश मामंत्र्य तं मंत्रविदग्रगण्यः । स्नातुं ययौ माधवमासि गंगामभ्यर्चितस्तेन तदा स विप्राः
विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतम् । पत्न्यासमं पुण्यधिया तमेव संचिंतयँल्लोकपवित्रकीर्तिः
ऋषय ऊचुः - सूतसूतमहाप्राज्ञ जीवजीव शतंसमाः । यद्वयं पुण्यसमयं श्राविता जगतो हितम्
वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः । पायंपायं न तृप्यामो वयं सूत तदुत्तमम्
सूत उवाच- अत्राप्युदाहरंतीममितिहासं पुरातनम् । संवादमादिलोकस्य जगतां जगदीशितुः
षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम् । एवं नवसहस्राणि योजनानां विधाय च
वामया दंष्ट्रया गृह्य उद्धृतादौ वसुंधरा । दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही
धर्माख्यानप्रसंगेन सोवाच विनयाद्विभुम् । पृथिव्युवाच- एते द्वादश मासा वै षष्टिर्दिनशतत्रयम्
एषां किमुत्तमं पुण्यं प्रियं च तव केशव । पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे
मकरस्थे रवौ मासः पुराणे पावनः स्मृतः । मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः
मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः । एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः
युगादयो युगांताश्च तथा कल्पादयोऽपि च । सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम्
सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद । वराह उवाच- विधिनाविधिनाचैव ये यजंति नराधमाः
माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा । हिरण्याक्षो वरारोहे माधवे तु मधुर्हत
आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता । त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः
माधवे मासि संभूता तेन मे माधवःप्रियः । त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे
प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः । अक्षया सोच्यते लोके तृतीया हरिवल्लभा
स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे । येऽर्चयंति यवैर्विष्णुं श्राद्धं कुर्वंति यत्नतः
तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम् । ये ददंत्यपि दानानि धन्यास्ते धार्मिका नराः
ये यजंति हरेर्नित्यमध्वरैर्विविधैरपि । माधवे यजते यो मां तेभ्यस्तदधिकं फलम्
स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम् । वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु