उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः । अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत्
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् । एवं क्रियायोगपथैः पुमान्वैदिकतांत्रिकैः
अर्च्चयेच्च यतः सिद्धिं हरेर्विंदत्यभीप्सिताम् । तामर्चां संप्रतिष्ठाप्य मंदिरं कारयेद्दृढम्
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम् । पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम्
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात् । प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम्
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात् । तमेव नैरपेक्षेण भक्तियोगेन विंदते
भक्तियोगं स लभते एवं यः पूजयेद्धरिम्
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं । ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्विमलेंदु शंखधवला या माधवव्यापिनी । सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम्
मूलमंत्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम् । श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः
इदं ते सर्वमाख्यातं पावनं माधवार्चनम् । विशेषान्माधवे मासि त्वमेतत्कुरु भूपते
सूत उवाच- इत्येवमाकर्ण्य वचो विचित्रं पुण्यं पवित्रं विधिनंदनस्य । प्रणम्य बद्धांजलिराह राजा सकौतुकी भागवतप्रधानः
अंबरीष उवाच- समस्तभूमीवलयेश्वरोऽहमव्याहताज्ञो विबुधप्रसेवी । गोविंदपादांबुजदत्तचित्तः स्वचित्तसंतोषितभूमिदेवः
विख्यातराजोचितवंशरत्नं निरंतरं धर्मरुचिर्यशस्वी । सौंदर्यशौर्योदयदानशीलः सुपुत्रवानस्मि जितारिवर्गः
केनापि पुण्येन पवित्रबुद्धिर्जातोहमीदृग्गुणसंतश्रीः । इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कांतिमती च कांता
इदं मे सुकृतं सर्वं पुराजन्मनि चेष्टितम् । समादिश मुने सम्यक्सर्वज्ञोसि दयानिधे
नारद उवाच- इयं रूपवती नाम वेश्यासीदन्यजन्मनि । सांप्रतं तव भार्या या सत्याचारातिसुंदरी
वेश्याधर्मेण वर्तेत यथोद्दिष्टेन भाविनी । कुर्वती किल कर्माणि शुभानि द्विजशासनात्
देवदास इति ख्यातो हेमकारो भवानभूत् । पूर्वजन्मनि वै तस्या रुचेर्भर्ता भुजंगमः
इयं भवंतं भजते रुची रूपवती पुनः । व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम्
आकर्ण्य चैकदा धर्मं वैशाखस्नानसंभवम् । चक्रे धर्मवती तोये स्नानं मेषगते रवौ
दानं दत्तवती दक्षा वेश्या रूपवती सदा । ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम्
स तया देवदासस्त्वं बोधितः स्नेहयंत्रितः । कृतवान्बुद्धितः स्नानं माधवे मासि सादरम्
तत्र त्रेतायुगस्यादौ तृतीयामाप्यनिर्मलाम् । सुवर्णकारं सोवाच देवदासं तमादरात्
वेश्योवाच- उत्तमं कुरु सौवर्णं मधुसूदनमच्युतम् । पूजयित्वा यवैर्देवमेतैः संतर्प्य चानलम्
ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया । दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम्
अक्षयेति तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया । शुक्ला वैशाखमासस्य तदक्षयफलप्रदम्
अस्यां दास्यामि तं हैमं मधुसूदनमव्ययम् । नारद उवाच- इति तस्य वचः श्रुत्वा मधुरं हेमकारकः
चक्रे सुवर्णप्रतिमामच्युतस्यापि सुंदरीम् । सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः
यथोद्दिष्टस्य चंद्रस्य प्रतिमां लक्षणान्विताम् । ददौ सा च विधानेन स्नात्वा विप्राय सुंदरीम्
पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप