उभाभ्यां वेदतंत्राभ्यां हरेरुभयसिद्धये । सुदर्शनं पांचजन्यं गदासीषु धनुर्हलम्
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् । नंदं सुनंदं गरुडं प्रचंडं चंडमेव च
महाबलं बलं चैव कुमुदं कुमुदेक्षणम् । दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान्
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः । चंदनोशीरकर्पूर कुंकुमागुरुवासितैः
सलिलै स्नापयेन्मंत्रैर्नित्यं वा विभवे सति । स्वर्णघर्मानुवाकेन महापुरुषविद्यया
पौरुषेणापि सूक्तेन सामनीराजनादिभिः । वस्त्रोपवीताभरण पत्रस्रग्गंधलेपनैः
अलंकुर्वीत सप्रेम विष्णुभक्तो यथोचितम् । पाद्यमाचमनीयं च गंधं सुमनसोक्षतान्
गंधधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः । गुडपायससर्पींषि शष्कुल्यापूपमोदकान्
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत् । अभ्यंगोन्मर्दनादर्श दंतधावाभिषेचनम्
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम् । विधिना विहिते कुंडे मेखलावर्तवेदिभिः
अग्निमाधाय परितः समूहेत्पाणिनोदकम् । परिस्तीर्याथ पर्युक्ष्य दत्वा इध्मं यथाविधि
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षण्यैवाज्यसेचनम् । तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः
लसच्चतुर्भुजं शांतं पद्मकिंजल्कवाससम् । स्फुरत्किरीटकटककटिसूत्रवरांगदम्
श्रीवत्सवक्षसंभ्राजत्कौस्तुभं वनमालिनम् । ध्यायन्नभ्यर्च्य दारूणि हविषा सघृतानि च
प्रास्याज्यभागावाघारौ दत्वा चाज्यप्लुतं हविः । अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत्
मूलमंत्रं जपेद्ब्रह्मन्स्मरन्नारायणात्मकम् । दत्वाचमनमुच्छिष्टं विष्वक्सेनाय कल्पयेत्
मुखवासं तु सुरभिं तांबूलाद्यमुपाहरेत् । उपगायन्गृणन्नित्यं कर्माण्यभिरवाक्षरैः
सत्कथां श्रावयञ्छृण्वन्मुहूर्तं क्षणिको भवेत् । स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि
स्तुत्वा प्रसीद भगवन्निति वंदेत दंडवत् । शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम्
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् । इति शेषान्हरेर्दत्ताञ्छिरस्याधाय सादरम्
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः । अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत्
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् । एवं क्रियायोगपथैः पुमान्वैदिकतांत्रिकैः
अर्च्चयेच्च यतः सिद्धिं हरेर्विंदत्यभीप्सिताम् । तामर्चां संप्रतिष्ठाप्य मंदिरं कारयेद्दृढम्
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम् । पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम्
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात् । प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम्
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात् । तमेव नैरपेक्षेण भक्तियोगेन विंदते
भक्तियोगं स लभते एवं यः पूजयेद्धरिम्
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं । ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्विमलेंदु शंखधवला या माधवव्यापिनी । सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम्
मूलमंत्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम् । श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः
इदं ते सर्वमाख्यातं पावनं माधवार्चनम् । विशेषान्माधवे मासि त्वमेतत्कुरु भूपते