तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति । वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः । पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः । अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत्
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम् । पुष्पार्चनविधानेन पूजयेन्मधुसूदनम्
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम् । सजन्मशतसाहस्रं न शोकफलभाग्भवेत्
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम् । स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत्
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् । माधवस्य प्रसादेन माधवे लीयते ततः
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम् । वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम्
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप । अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः
वैदिकस्तांत्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत्
वैदिको मिश्रको वापि विप्रादीनां विधीयते । तांत्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः
अर्चयेत्स्थंडिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे । द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया
पूर्वं स्नानं प्रकुर्वीत धौतदंतोंऽगशुद्धये । उभयोरपि च स्नानं मंत्रैर्मृद्ग्रहणादिना
संध्योपास्त्यादिकर्माणि वेदतंत्रोदितानि वै । पूजांते कल्पयेत्सम्यक्संकल्पं कर्मपावनम्
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता
चलाचलेति द्विविधा प्रतिष्ठा जीवमंदिरम् । उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने
अस्थिरायां विकल्पः स्यात्स्थंडिले तु भवेद्द्वयम् । स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम्
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः । भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि
स्नानालंकरणं श्रेष्ठमर्चायामेव भूपते । स्थंडिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थंडिले सलिलादिभिः । श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि
गंधो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः । शुचिः संभृतसंभारः प्राग्दर्भैः कल्पितासनः
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः । कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत्
कलशं प्रोक्षणीयं च यथावदुपसाधयेत् । तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत् । पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत्
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमंत्रयेत् । पिंडे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः
अण्वीं जीवकलां ध्यायेन्नादांते सिद्धिभाविताम् । तयात्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत् । पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत्
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः । पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम्