जलान्नशर्कराधेनुतिलधेनुमुखानि च । वित्तमानेन देयानि दानानीप्सितसिद्धये
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः । जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते
एकभुक्तमथो नक्तमयाचितमतंद्रितः । माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम्
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः । हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः
व्रतं दानं जपो होमो मधुसूदनपूजनम् । अपि जन्मसहस्रोत्थं पापं दहति दारुणम्
यथैव माधवो ध्यातो विनाशयति किल्बिषम् । तथैव माधवे स्नानं नियमेन विनिर्मितम्
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् । दानं धर्मघटादीनां मधुसूदनपूजनम्
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् । तिलोदकसुवर्णान्न शर्करांबरभूषणम्
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु । त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम्
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः । सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून्
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति । वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः । पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः । अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत्
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम् । पुष्पार्चनविधानेन पूजयेन्मधुसूदनम्
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम् । सजन्मशतसाहस्रं न शोकफलभाग्भवेत्
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम् । स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत्
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् । माधवस्य प्रसादेन माधवे लीयते ततः
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम् । वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम्
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप । अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः
वैदिकस्तांत्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत्
वैदिको मिश्रको वापि विप्रादीनां विधीयते । तांत्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः
अर्चयेत्स्थंडिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे । द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया
पूर्वं स्नानं प्रकुर्वीत धौतदंतोंऽगशुद्धये । उभयोरपि च स्नानं मंत्रैर्मृद्ग्रहणादिना
संध्योपास्त्यादिकर्माणि वेदतंत्रोदितानि वै । पूजांते कल्पयेत्सम्यक्संकल्पं कर्मपावनम्
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता
चलाचलेति द्विविधा प्रतिष्ठा जीवमंदिरम् । उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने
अस्थिरायां विकल्पः स्यात्स्थंडिले तु भवेद्द्वयम् । स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम्
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः । भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि