अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः । नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे । नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल
पद्मनाभ नमस्तेऽस्तु कुंडलांगदभूषित । नमस्ते सर्वलोकेश सुप्तानामुपबोधन
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा । सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते । एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम्
द्विजं गां कांचनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत् । आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत्
पूर्वं भक्त्यैव गोविंदं गृही च नियतात्मवान् । पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् । सर्वं संवत्सरं यावदर्चितस्तेन माधवः
माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि । केशवप्रीतये कुर्यात्केशवव्रतसंचयम्
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि । जन्मकोटिसमुद्भूत पातकांतकराणि च
जलान्नशर्कराधेनुतिलधेनुमुखानि च । वित्तमानेन देयानि दानानीप्सितसिद्धये
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः । जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते
एकभुक्तमथो नक्तमयाचितमतंद्रितः । माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम्
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः । हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः
व्रतं दानं जपो होमो मधुसूदनपूजनम् । अपि जन्मसहस्रोत्थं पापं दहति दारुणम्
यथैव माधवो ध्यातो विनाशयति किल्बिषम् । तथैव माधवे स्नानं नियमेन विनिर्मितम्
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् । दानं धर्मघटादीनां मधुसूदनपूजनम्
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् । तिलोदकसुवर्णान्न शर्करांबरभूषणम्
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु । त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम्
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः । सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून्
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति । वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः । पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः । अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत्
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम् । पुष्पार्चनविधानेन पूजयेन्मधुसूदनम्
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम् । सजन्मशतसाहस्रं न शोकफलभाग्भवेत्
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम् । स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत्
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् । माधवस्य प्रसादेन माधवे लीयते ततः
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम् । वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम्
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप । अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः