कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा । ते सर्वे तृप्तिमायांतु मद्दत्तेनांबुना सदा
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः । अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले
अग्निष्वात्तास्तथा सौम्या हविष्मंतस्तथोष्मपाः । कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः । यमाय धर्मराजाय मृत्यवे चांतकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च । उदुंबराय दध्नाय नीलाय परमेष्ठिने
वृकोदराय चित्राय चित्रगुप्ताय वै नमः । दर्भपाणिस्तु विधिवत्पितॄन्संतर्पयेत्ततः
पित्रादीन्नामगोत्रेण तथा मातामहानपि । संतर्प्य विधिना सर्वानिमं मंत्रमुदीरयेत्
ये बांधवा बांधवा ये येऽन्यजन्मनि बांधवाः । ते तृप्तिमखिलां यांतु येऽस्मत्तस्तोयकांक्षिणः
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः । साक्षतैश्च सपुष्पैश्च सलिलारुणचंदनैः
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः । नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे । नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल
पद्मनाभ नमस्तेऽस्तु कुंडलांगदभूषित । नमस्ते सर्वलोकेश सुप्तानामुपबोधन
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा । सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते । एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम्
द्विजं गां कांचनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत् । आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत्
पूर्वं भक्त्यैव गोविंदं गृही च नियतात्मवान् । पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् । सर्वं संवत्सरं यावदर्चितस्तेन माधवः
माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि । केशवप्रीतये कुर्यात्केशवव्रतसंचयम्
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि । जन्मकोटिसमुद्भूत पातकांतकराणि च
जलान्नशर्कराधेनुतिलधेनुमुखानि च । वित्तमानेन देयानि दानानीप्सितसिद्धये
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः । जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते
एकभुक्तमथो नक्तमयाचितमतंद्रितः । माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम्
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः । हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः
व्रतं दानं जपो होमो मधुसूदनपूजनम् । अपि जन्मसहस्रोत्थं पापं दहति दारुणम्
यथैव माधवो ध्यातो विनाशयति किल्बिषम् । तथैव माधवे स्नानं नियमेन विनिर्मितम्
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् । दानं धर्मघटादीनां मधुसूदनपूजनम्
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् । तिलोदकसुवर्णान्न शर्करांबरभूषणम्
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु । त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम्
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः । सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून्