मूर्खमात्रवचो ग्राही स नृपः शत्रुनंदनः । ततोऽहं सकलं राज्यं विभज्य वरमंत्रिणः
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते । मन्त्रिण ऊचुः - यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप
तदेव मतमस्माकं संदेहो नात्र विद्यते । अथायातौ नृपादेशात्संसदं प्रति सत्तमौ
वीरभद्र यशोभद्र नामानौ तनयावुभौ । तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ
पितृभक्तौ सदा शांतौ बलिनौ धर्मतत्परौ । ततः स भूपः सहसा राजनीति विदांवरः
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात् । अत्रांतरे गृध्र एकः स्वकीयस्त्री समन्वितः
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः । तावागतौ समालोक्य पक्षिणावतिहर्षितौ
राजाह युवयोः कस्माच्छुभागमनमुच्यताम् । गृध्र उवाच- गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परंतपः
आगतोऽस्मि मुदा द्रष्टुं संपदं पुत्रयोस्तव । एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि
इह जन्मनि संपत्तिं द्रष्टुमावां समागतौ । तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम् । राजोवाच पुनर्विप्र विस्मयाविष्टमानसः
राजोवाच- अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया । एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम्
यदि जानासि तत्वेन पूर्ववृत्तांतमेतयोः । ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः
गृध्र उवाच- नृपते वृषलावेतौ युगे द्वापरसंज्ञके । गरसंगरनामानौ सत्यघोषसुतौ स्थितौ
एककाले च भूपाल मृतौ निज गृहांतरे । ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिंकराः
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः । बबंधुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना । इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम् । तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम्
मूलाद्विचारयामास तत इत्याह चांतकम् । चित्रगुप्त उवाच- सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम् । स्वयंदानं समुत्सृज्य न हि दत्तं द्विजातये
तेनैव कर्मणा राजन्निमौ नरकगामिनौ । दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये
स याति नरकं घोरं सर्वभूतभयावहम् । दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ । तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो
नयंतु किंकराः शीघ्रं नरकं प्रतिदारुणम्
यमाज्ञया ततो दूताः संदष्टौष्ठपुटाः क्रुधा । चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते
तस्मिन्नेव दिने राजन्ननया भार्यया सह । यमदूतैः समागत्य नीतोऽहं यममन्दिरम्
मयापि तत्कृतं कर्म तदाकर्णय भूपते । मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम्
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः । सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः
इयं मंजूकषा नाम मम पत्नी यशस्विनी । पतिव्रता महाभागा पवित्रकुलसंभवा
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः । अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत् । धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः