माधवे मेषगे भानौ मुरारे मधुसूदन । प्रातःस्नानेन मे नाथ यथोक्तफलदो भव
यथा ते माधवो मासो वल्लभो मधुसूदन । प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः । स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः
तीर्थं प्रकल्पयेद्धीमान्मूलमंत्रमिमं पठन् । ॐनमोनारायणायमूलमंत्र उदाहृतः
दर्भपाणिस्तु विधिवदाचांतः प्रणतो भुवि । चतुर्हस्तसमायुक्तं चतुरस्रं समंततः
प्रकल्प्यावाहयेद्गंगां मंत्रेणानेन मानवः । विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् । तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत्
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि । नंदिनीत्येव ते नाम वेदेषु नलिनीति च
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया । विद्याधरी महादेवी तथा लोकप्रसादिनी
क्षेमंकरी जाह्नवी च शांता शांतिप्रदायिनी । एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत्
भवेत्संनिहिता तत्र गंगा त्रिपथगामिनी । सप्तवाराभि जप्तेन करसंपुटयोजिते
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पंच सप्त वा । स्नानं कृत्वा मृदा तद्वदामंत्र्य तु विधानतः
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्
उद्धृतासि वराहेण विष्णुना शतबाहुना । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत्
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै । ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम्
देवान्यक्षांस्तथा नागान्गंधर्वाप्सरसोसुरान् । क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जंतुकान्खगान्
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः । निराधाराश्च ये जीवाः पापकर्मरताश्च ये
तेषामाप्यायनार्थाय दीयते सलिलं मया । कृतोपवीती देवेषु निवीती च भवेन्नरः
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा । सनकः सनंदनश्चैव तृतीयश्च सनातनः
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा । ते सर्वे तृप्तिमायांतु मद्दत्तेनांबुना सदा
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः । अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले
अग्निष्वात्तास्तथा सौम्या हविष्मंतस्तथोष्मपाः । कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः । यमाय धर्मराजाय मृत्यवे चांतकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च । उदुंबराय दध्नाय नीलाय परमेष्ठिने
वृकोदराय चित्राय चित्रगुप्ताय वै नमः । दर्भपाणिस्तु विधिवत्पितॄन्संतर्पयेत्ततः
पित्रादीन्नामगोत्रेण तथा मातामहानपि । संतर्प्य विधिना सर्वानिमं मंत्रमुदीरयेत्
ये बांधवा बांधवा ये येऽन्यजन्मनि बांधवाः । ते तृप्तिमखिलां यांतु येऽस्मत्तस्तोयकांक्षिणः
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः । साक्षतैश्च सपुष्पैश्च सलिलारुणचंदनैः