जगत्यस्मिन्निरालंबे मधुसूदनमच्युतम् । हस्तावलंबनं स्तोत्रं विष्णुं वंदे परात्परम्
सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोस्तु ते
नृसिंहानंत गोविंद भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शम पापं नमोस्तु ते
यन्मया चिंतितं दुष्टं स्वचित्तवशवर्तिना । अकार्य्यमघमत्युग्रं तच्छमं नय केशव
ब्रह्मण्यदेव गोविंद परमार्थपरायण । जगन्नाथ जगद्धातः पापं शमय मेऽच्युत
यच्चापराह्णे सायाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता
जानता च हृषीकेश पुंडरीकाक्ष माधव । नामत्रयोच्चारणतः सर्वे यांतु मम क्षयम्
शारीरं मे हृषीकेश पुंडरीकाक्ष मानसम् । पापं प्रशममायातु वाक्कृतं मम माधव
यद्भुंजानः पिबंस्तिष्ठन्स्वपञ्जाग्रद्यदास्थितः । अकार्षं पापमर्थार्थं कायेन मनसा गिरा
महदल्पमपि प्रायो दुर्योनि नरकावहम् । तत्पापं प्रशमं यातु वासुदेवस्य कीर्तनात्
परं ब्रह्म परं धाम पवित्रं परमं च यत् । तस्मिन्प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु
यत्प्राप्य न निवर्त्तंते गंधस्पर्शादिवर्जिताः । सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम्
पापप्रशमनं स्तोत्रं यः पठेच्छृणुयान्नरः । शारीरैर्मानसैर्वाग्जैः कृतैः पापैः स मुच्यते
मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम् । तस्मात्पापे कृतं जप्यं स्तोत्रं सर्वाघमर्दनम्
प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैः । प्रायश्चित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पातकम्
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये । पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर
स्तवस्य श्रवणादस्य सद्य एव विलीयते । पापद्रुमकुठारोऽयं पापेंधनदवानलः
पापराशितमः स्तोम भानुरेष स्तवो नृप । मया प्रकाशितस्तुभ्यं तथा लोकानुकंपया
स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादरात् । इतिहासमिमं पुण्यं यः शृणोति नराधिप
तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः । स्वस्ति तेस्तु महाराज गंगायामथ सत्वरम्
स्नातुं यामि समायातो मासोऽयं माधवो महान्
सूत उवाच- यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा । विधिं पप्रच्छ संक्षिप्तं स्नानदानक्रियोचितम्
अंबरीष उवाच- मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम् । किं च दानं कथं स्नानं कथं केशवपूजनम्
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः । विशेषतोऽपि पूजाया विधिं तीर्थपदे वद
नारद उवाच-। मेषसंक्रमणे भानोर्माधवे मासि सत्तम । महानद्यां नदीतीरे नदे सरसि निर्झरे
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये । दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन्
मधुमासस्य शुक्लायामेकादश्यामुपोषितः । पंचदश्यां च वा वीर मेषसंक्रमणेऽपि वा
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम्
वैशाखं सकलं मासं मेषसंक्रमणे रवेः । प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः
मधुहंतुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम्