न माधवसमो देवो यथा देवेषु निश्चितम् । तथा मासेषु सर्वेषु न मासो माधवप्रियः
तस्य माधवमासस्य माहात्म्यमपि भक्तितः । श्रुत्वा विमुच्यते प्रेतयोनितः किं विधानतः
सतां संभाषणादेव पुण्यतीर्थनिषेवणात् । नारायणेति पठनात्तन्नामश्रवणादपि
मुच्यते पातकैः सर्वैर्जनो भक्तिपरायणः । यतिष्ये तदहं प्रेता भवतामपि मुक्तये
परोपकारजं पुण्यं यतो न स्यान्मखैरपि । प्रेता यामि ततः स्नातुं रेवावारिणि माधवे
मासि मेषस्थिते भानावेतैरनुगतो नरैः । पंचैव ते पुनर्मोहाज्जातपातकसंचयाः
स्नातुमायांति वचसा ममैव करुणावतः
तावद्भवंतस्तु निदेशतो मे तिष्ठंतु तत्रैव वने विशोकाः । श्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय
निर्माय पुरुषानपि नाम तस्मात्कुशस्वरूपानिह नर्मदा के । विधानतो माधवमासि दीनान्निमज्जयामीति दया निबद्धः
एवं दिनत्रयेणैव मुक्तिर्वः प्रेतयोनितः । न दर्भबटुकस्नानमात्रेणैव न संशयः
नारद उवाच- एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितः । मुनिशर्मा ययावेतैरनुयातस्तु पंचभिः
तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथाविधिम् । स्नापयामास तान्प्रेतान्नामतो दर्भनिर्मितान्
स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथा । प्रेताः पुण्यवता तेन सद्यो मुक्ता दिवं ययुः
ते पापिनः पंच यदैव रेवाजले निमग्ना वचसैव तस्य । श्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णैकरुचो बभूवुः
पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणा । समक्षं सर्वलोकानां जातास्ते वरकांतयः
तत्रस्था मानवास्तांस्तु विरजान्स्नानमात्रतः । न स्पृशंति च राजेंद्र पापिसंसर्गशंकथा
मुनिशर्मानुरोधेन ततो धर्मप्रमाणतः । सद्यो दिव्याभवद्वाणी यदेते विगतैनसः
स्नातानां माधवेमासि मुकुंदहृदयात्मनाम् । पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम्
चित्रं किमत्र या शुद्धिर्जायते पापसंचयात् । सर्वेषामेव पापानां प्रायश्चित्तमिदं परम्
यत्प्रातर्माधवे मासि भक्त्या तीर्थेऽवगाहनम् । यतः प्रेतास्तु ते पापाः स्नापिता नाममात्रतः
स्मृताः पुण्यवता तेन मोचिता मुनिशर्मणा
इत्येवमाकर्ण्य गिरं नभःस्थामत्यद्भुतामाशु ततो मनुष्याः । शशंसुरेतानपि पंचपुण्यान्वैशाखमासं च मुनिं च रेवाम्
अथ चाकर्ण्य भूपालः स्तवं दुरितनाशनम् । यदाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः
यस्य श्रवणमात्रेण पापिनः शुद्धिमागताः । अन्येऽपि बहवो मुक्ताः पापादज्ञानसंभवात्
परदार परद्रव्य जीवहिंसादिके यदा । प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित्तस्थमहंकारगतं हरिम्
चित्तस्थमीशमव्यक्तमनंतमपराजितम् । विष्णुमीड्यमशेषाणामनादिनिधनं विभुम्
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । यच्चाहंकारको विष्णुर्यो विष्णुर्मयि संस्थितः
करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च । तत्पापं नाशमायाति तस्मिन्नेव हि चिंतिते
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् । तमुपेंद्रंमहं विष्णुं प्रणमामि नतिप्रियम्