आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम् । मिथ्यामिथ्यापरच्छिद्र मर्म्मान्वेषी स्वभावतः
सूचयामास तेनासौ सूचकोऽशुचिरातुरः । शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम । गृहोपरि सदा स्वादुभुक्तमेतेन पापिना
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः । मौनेनापि स्थितो नित्यं पादेन लिखते महीम्
अस्माकमपि पापिष्ठो लेखको लोकसंगतः । गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम्
असंज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः । नास्तिक्यभावादनिशं पितृदैवत मानवान्
न मन्यते च सत्कर्म पापस्तेन विदैवतः । सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम् । एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम्
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः । एतत्ते सर्वमाख्यातमात्मवृत्तांतसंभवम्
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते । ब्राह्मण उवाच- ये जीवा भुवि तिष्ठंति सर्वआहारमूलकाः
युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः । प्रेता ऊचुः - शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्
यं श्रुत्वा निंदसे ब्रह्मन्भूयोभूयश्च नित्यशः । श्लेष्ममूत्रपुरीषेण योषिदंगमलेन च
गृहाणित्यक्तशौचानि तानि भुंजंति तत्र वै । स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च
कुत्सितानि मलेनापि प्रेता वै तत्र भुंजते । माधवं यत्र नार्चंति स्त्रीजितानि गृहाणि च
दया क्षांतिविहीनानि प्रेतास्तत्रैव भुंजते । यत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः
कलहो यत्र सततं प्रेतास्ते तत्र भुंजते । न यत्र जामयो गेहे पूज्यंते न वराः स्त्रियः
यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम् । न यत्र हरिसेवा वा न कथा यत्र वैष्णवी
न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुंजते । येषामेवं गृहे प्रीता भुंजते तेऽपि सत्वरम्
प्रेता भवंति पापेन निजवंशविनाशकाः । तस्य मे जायते ब्रह्मन्वदतो भोजनं निजम्
अस्मात्पापतरं चान्यत्किंचिद्वक्तुं न शक्यते । निर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम्
यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथा । ब्राह्मण उवाच- एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः
देवतातिथिपूजाभिर्गुरुपूजादिभिस्तथा । आचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः
एवं श्राद्धक्रियादानैर्यथाविधिविनिर्मितैः । दयादानदमक्षांतिशीलशिष्टाभिवादनैः
इत्येवमादिभिर्धर्मैः प्रेता न स्युः कुलेऽपि वै । गोविप्रतीर्थामरपर्वताग्र्य नदीनदाश्वत्थतरूननेकशः
यो वंदते बंधुजने विनीतः प्रेतो न लोके भवतीह नूनम् । क्रमादर्च्चयते युक्तो विशेषादपि मानवः
गंगादिपुण्यतीर्थेषु तस्य पुण्यमनंतकम् । नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः
दर्शनादेव तस्यापि मुक्तः प्रेतत्वतो भवेत् । ऊर्जमूर्जस्वलं मासमथ दामोदरप्रियम्
तपसामुत्तमं मासं तपो माधववल्लभम् । वैशाखं माधवं मासं मधुसूदनदैवतम्
उत्तमं सर्वमासानां यमेकं मुनयो विदुः । येनैव साधनेन स्यात्सर्वं कृत्यं हि साधितम्
ब्रह्मविद्यामताभ्येति सा लक्ष्मीर्विश्वकारिणी । तस्या वासो यतो मासो माधवोऽसौ ततः स्मृतः