पद्मपुराणम्
दुर्लभा हि महानद्यो माधवे मासि सर्वशः । ततोऽपि दुर्लभा गंगा रेवा च यमुना तथा
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम् । यः स्नाति माधवे मासि विपापः स हरिं व्रजेत्
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम् । मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह । जग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम्
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः । ददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान्
कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततः । ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान्
अरण्ये कंटकाक्रांते वृक्षपानीयवर्जिते । सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः
नमोनारायणायेति रक्षरक्षेति चाब्रवीत्
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः । भवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः
विनयान्वितमनसो मुनिशर्मा विलोक्य तान् । उवाच मधुराभाषी के यूयं विकृता नराः
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः । कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः
प्रेता ऊचुः - क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः । कृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः
न जानीमो दिशः क्वापि मूढा मानवघातिनः । तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः
प्रभातमिव संभाति भास्करोदयदर्शनात् । श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम्
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम् । दर्शनेनैव ते विप्र नामश्रवणतो हरेः
भवांतरमनुप्राप्ता वयं प्राप्ता दयालवः । विनाशयत्यपयशो बुद्धिं विशदयत्यपि
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् । अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः
शीघ्रगो रोधकश्चान्यः पंचमोयं च लेखकः । षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः
नित्यंयाजनकश्चायमष्टमः कष्टदायकः । मुनिशर्मोवाच- प्रेतानां कर्मजातानां नामानि भवतां कुतः
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः । प्रेता ऊचुः - मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे
आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम् । मिथ्यामिथ्यापरच्छिद्र मर्म्मान्वेषी स्वभावतः
सूचयामास तेनासौ सूचकोऽशुचिरातुरः । शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम । गृहोपरि सदा स्वादुभुक्तमेतेन पापिना
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः । मौनेनापि स्थितो नित्यं पादेन लिखते महीम्
अस्माकमपि पापिष्ठो लेखको लोकसंगतः । गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम्
असंज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः । नास्तिक्यभावादनिशं पितृदैवत मानवान्
न मन्यते च सत्कर्म पापस्तेन विदैवतः । सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम् । एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम्
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः । एतत्ते सर्वमाख्यातमात्मवृत्तांतसंभवम्
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते । ब्राह्मण उवाच- ये जीवा भुवि तिष्ठंति सर्वआहारमूलकाः