विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः । न तृप्तिरशनादन्या न गुरुर्जनकादपि
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः । न गंगया समं तीर्थं न दानं सुरभीसमम्
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम् । न भार्यया समं मित्रं न धर्मो दयया समः
न स्वातंत्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः । न सत्यात्परआचारो न संतोषात्परं सुखम्
न माधवसमो मासो महापापहरः परः । विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः
गंगादिषु च तीर्थेषु विशेषेण सुदुर्लभः । प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च
तावद्गर्जंति पापानि यावन्नायाति माधवः । वैशाखमखिलं मासं यः स्नाति हरितत्परः
हरिपादसमुद्भूते सलिले विमलाशयः । स एव सर्वपापानां हंता दृष्टस्तु पापिभिः
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः
मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि । मेषस्थिते संप्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे
दुर्लभा हि महानद्यो माधवे मासि सर्वशः । ततोऽपि दुर्लभा गंगा रेवा च यमुना तथा
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम् । यः स्नाति माधवे मासि विपापः स हरिं व्रजेत्
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम् । मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह । जग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम्
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः । ददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान्
कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततः । ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान्
अरण्ये कंटकाक्रांते वृक्षपानीयवर्जिते । सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः
नमोनारायणायेति रक्षरक्षेति चाब्रवीत्
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः । भवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः
विनयान्वितमनसो मुनिशर्मा विलोक्य तान् । उवाच मधुराभाषी के यूयं विकृता नराः
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः । कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः
प्रेता ऊचुः - क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः । कृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः
न जानीमो दिशः क्वापि मूढा मानवघातिनः । तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः
प्रभातमिव संभाति भास्करोदयदर्शनात् । श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम्
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम् । दर्शनेनैव ते विप्र नामश्रवणतो हरेः
भवांतरमनुप्राप्ता वयं प्राप्ता दयालवः । विनाशयत्यपयशो बुद्धिं विशदयत्यपि
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् । अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः
शीघ्रगो रोधकश्चान्यः पंचमोयं च लेखकः । षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः
नित्यंयाजनकश्चायमष्टमः कष्टदायकः । मुनिशर्मोवाच- प्रेतानां कर्मजातानां नामानि भवतां कुतः
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः । प्रेता ऊचुः - मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे