निर्विण्णमानसो दैवान्नंदनामेह संगतः । एवं पंचापि पापिष्ठाः स्थानमेकमुपागताः
कः कस्यापि न संपर्कं भोजनाच्छादनादिभिः । न करोति महाभाग विना वार्तां द्विजोत्तम
विशंत्येकासने नैव न स्वपंत्येकसंस्तरे । एवं दुःखसमाक्रांता नानातीर्थेषु वै गताः
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम । दृष्ट्वा भवंतं दीप्यंतं प्रसन्नानि मनांसि नः
वदंति दुरितप्रांतं साधोस्ते पुण्यदर्शनात् । उपायं वद नः स्वामिन्यथा पापक्षयो हि नः
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो । आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम्
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम् । नारद उवाच- तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः
इदमाह विचार्येति करुणावरुणालयः । मुनिशर्मोवाच- यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना । शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम्
यन्मयांगिरसः पूर्वं श्रुतं मुनिसमागमे । दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा
विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः । न तृप्तिरशनादन्या न गुरुर्जनकादपि
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः । न गंगया समं तीर्थं न दानं सुरभीसमम्
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम् । न भार्यया समं मित्रं न धर्मो दयया समः
न स्वातंत्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः । न सत्यात्परआचारो न संतोषात्परं सुखम्
न माधवसमो मासो महापापहरः परः । विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः
गंगादिषु च तीर्थेषु विशेषेण सुदुर्लभः । प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च
तावद्गर्जंति पापानि यावन्नायाति माधवः । वैशाखमखिलं मासं यः स्नाति हरितत्परः
हरिपादसमुद्भूते सलिले विमलाशयः । स एव सर्वपापानां हंता दृष्टस्तु पापिभिः
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः
मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि । मेषस्थिते संप्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे
दुर्लभा हि महानद्यो माधवे मासि सर्वशः । ततोऽपि दुर्लभा गंगा रेवा च यमुना तथा
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम् । यः स्नाति माधवे मासि विपापः स हरिं व्रजेत्
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम् । मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह । जग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम्
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः । ददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान्
कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततः । ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान्
अरण्ये कंटकाक्रांते वृक्षपानीयवर्जिते । सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः
नमोनारायणायेति रक्षरक्षेति चाब्रवीत्
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः । भवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः
विनयान्वितमनसो मुनिशर्मा विलोक्य तान् । उवाच मधुराभाषी के यूयं विकृता नराः