परस्परं च भाषंतः कृशाः कृष्णवपुः श्रियः । यावदेवं स विप्राग्र्यो विचारयति धीरधीः
तावदागम्यते सर्वे दूरस्था मुनिमादरात् । बद्धांजलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम्
पंचपुरुषा ऊचुः - भव्यं भवंतं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम् । मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः
संतः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम् । आर्तानामार्तिहंतारो दर्शनादेव साधवः
अहं पांचालदेशीयः क्षत्रियो वीरवाहनः । ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन्
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम् । एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम । एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो
दह्यमानस्य पापेन शोकाकुलितचेतसः । चंद्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः । मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते
निवसन्मागधेदेशे संत्यक्तः स्वजनैस्ततः । दैवादसावपि मुने भ्रमन्निह समागतः
शिखासूत्रविहीनस्तु विप्रलिंगविवर्जितः । मया पृष्टस्तु वृत्तांतं सत्यमेवावदद्द्विजः
वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा । महामोहगतेनापि यथा वै घातितो गुरुः
तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः । तृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः
सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसंगतः । पृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत्
आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः । निरस्तः सर्वलोकैश्च भार्याबंधुजनैरपि
तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः । चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः
मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम् । बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन्
दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनः । पंचमोऽयं महापापी पापिसंसर्गकारकः
प्रत्यहं धनलोभेन स्तेयादिकृतवानघम् । वैश्योतिपातकैः क्रांतस्ततस्त्यक्तो जनैः स्वयम्
निर्विण्णमानसो दैवान्नंदनामेह संगतः । एवं पंचापि पापिष्ठाः स्थानमेकमुपागताः
कः कस्यापि न संपर्कं भोजनाच्छादनादिभिः । न करोति महाभाग विना वार्तां द्विजोत्तम
विशंत्येकासने नैव न स्वपंत्येकसंस्तरे । एवं दुःखसमाक्रांता नानातीर्थेषु वै गताः
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम । दृष्ट्वा भवंतं दीप्यंतं प्रसन्नानि मनांसि नः
वदंति दुरितप्रांतं साधोस्ते पुण्यदर्शनात् । उपायं वद नः स्वामिन्यथा पापक्षयो हि नः
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो । आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम्
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम् । नारद उवाच- तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः
इदमाह विचार्येति करुणावरुणालयः । मुनिशर्मोवाच- यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना । शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम्
यन्मयांगिरसः पूर्वं श्रुतं मुनिसमागमे । दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा