वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने। त्रिनवतितमोऽध्यायः
अंबरीष उवाच- पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो । यस्य श्रवणमात्रेण पापराशिर्विलीयते
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम् । विकर्मोपार्जितं यस्य श्रवणादेव हीयते
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य । स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम् । यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम्
धन्यास्तु ते माधवमासि नाम स्मरंति येऽहो मधुसूदनस्य । तस्यैव मे किंचिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम्
सूत उवाच- वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य । स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य
नारद उवाच- सत्यं महीपाल मिथो मुकुंदकथारसालापविधिर्विशुद्धः । त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च । अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि
किंचिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम् । अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम्
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः । माधवे मासि ते पापा नर्मदासलिले परे
पुरातीर्थप्रसंगेन भ्रमन्कोपि महीसुरः । मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः
युक्तः शमदमाभ्यां च क्षांतिसंतोषसंयुतः । युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान्
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने । युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः । दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः
माधवे मासि रेवायां स्नानार्थं प्रतिसंचरन् । अग्रतः पंचपुरुषान्ददर्शातीव दुःखितान्
परस्परमसंसर्गकारिणः कृष्णविग्रहान् । वटच्छायामुपाश्रित्य समासीनानवस्थितान्
पश्यंतो दिक्षु सर्वासु दुरितोद्विग्नचेतसः । तानालोक्य द्विजश्रेष्ठश्चिंतयामास विस्मितः
अत्रैते के नरा भीता विपिने दीनचेष्टिताः । चौरा वा विकृताकारा दृश्यंते संगभागिनः
परस्परं च भाषंतः कृशाः कृष्णवपुः श्रियः । यावदेवं स विप्राग्र्यो विचारयति धीरधीः
तावदागम्यते सर्वे दूरस्था मुनिमादरात् । बद्धांजलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम्
पंचपुरुषा ऊचुः - भव्यं भवंतं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम् । मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः
संतः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम् । आर्तानामार्तिहंतारो दर्शनादेव साधवः
अहं पांचालदेशीयः क्षत्रियो वीरवाहनः । ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन्
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम् । एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम । एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो
दह्यमानस्य पापेन शोकाकुलितचेतसः । चंद्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः । मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते