यथा हरेर्भीतिभयेन नागा नश्यंति सर्वे निचयास्तथैव । नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन
तेजसा वैनतेयस्य पन्नगा इव पातकाः । विद्रवंति च वैशाखस्नानेनोषसि निश्चितम्
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम् । कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम्
भवित्री भर्तुः संयोगसुखसंभोगभागिनी । सुदेवोऽपि स जातोस्ति पांड्यदेशाधिपो बली
वैशाखमासि रेवायां स्नानपुण्येन भूपते । तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च । संदेहो नात्र कर्तव्यो विचित्रं पश्य भूपते
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः । नारद उवाच- इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम् । वीरसेनेन तेनैव पांड्यदेशाधिपेन सा
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता । बुभुजे भूरिविषयांश्चिरं सुचरितव्रता
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च । एतत्ते किंचिदाख्यातमंबरीष समासतः
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने। त्रिनवतितमोऽध्यायः
अंबरीष उवाच- पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो । यस्य श्रवणमात्रेण पापराशिर्विलीयते
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम् । विकर्मोपार्जितं यस्य श्रवणादेव हीयते
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य । स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम् । यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम्
धन्यास्तु ते माधवमासि नाम स्मरंति येऽहो मधुसूदनस्य । तस्यैव मे किंचिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम्
सूत उवाच- वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य । स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य
नारद उवाच- सत्यं महीपाल मिथो मुकुंदकथारसालापविधिर्विशुद्धः । त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च । अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि
किंचिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम् । अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम्
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः । माधवे मासि ते पापा नर्मदासलिले परे
पुरातीर्थप्रसंगेन भ्रमन्कोपि महीसुरः । मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः
युक्तः शमदमाभ्यां च क्षांतिसंतोषसंयुतः । युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान्
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने । युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः । दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः
माधवे मासि रेवायां स्नानार्थं प्रतिसंचरन् । अग्रतः पंचपुरुषान्ददर्शातीव दुःखितान्
परस्परमसंसर्गकारिणः कृष्णविग्रहान् । वटच्छायामुपाश्रित्य समासीनानवस्थितान्
पश्यंतो दिक्षु सर्वासु दुरितोद्विग्नचेतसः । तानालोक्य द्विजश्रेष्ठश्चिंतयामास विस्मितः
अत्रैते के नरा भीता विपिने दीनचेष्टिताः । चौरा वा विकृताकारा दृश्यंते संगभागिनः