किमत्र बहुनोक्तेन न विलंबोचितः क्षणः । उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि
चित्रोवाच-। स्वामिन्न दृष्टयोगेन तव संगतिधर्मतः । ध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमः । अचिंत्यायै नमस्तस्यै ततो नियतायै पुनः
जातूकर्ण उवाच-। इति भाष्यततस्तेन समं चित्रा ययौ तदा । विद्यमानं धनं किंचिदादाय मुनिनोदिता
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम् । अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः
हृदयालुरयं विप्रः स्नापयामास तां तदा । यथोचितविधानेन चित्रामुच्चित्रभाषिणीम्
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा । पठमानेषु विप्रेषु पुराणानि पृथक्पृथक्
यस्य श्रवणमात्रेण क्षीयते दुरितांधकः । यथा सूर्योदये नैव तिमिरौघः प्रणश्यति
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः । स्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ
तत्र मज्जंति रेवायां सेवायां निरता हरेः । वैशाखे विविधा लोका लोकानंत्यमभीप्सवः
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंति । विशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः
आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनः । स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम्
सकलं माधवं मासं सा चित्रा नर्मदाजले । सस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः । विप्राणां तत्र पठतां संगादस्य द्विजन्मनः
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः । अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम्
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः । उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः
अथ कालेन कियता कालधर्ममुपेयिवान् । विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप
तेन माधवमासस्य सुकृतेन तदैव सा । पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम्
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम् । वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम । यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च
ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि संगता । स्नात्वा च माधवे मासि किंचित्तत्रापि यद्ददौ
तस्य दानस्य सा भुंक्ते स्नानस्य च फलोदयम् । पिबते शीतलं तोयं मिष्टान्नं च तथानिशम्
दिव्यान्भोगान्प्रभुंजाना वर्तते च प्रभोर्गृहे । भुंजते विधिदत्तं च दुःखशोकादिपीडिता
यत्पुरा नरनारीणां गृहभंगरताऽभवत् । तस्यकर्मविपाकोऽयमस्याः किंचिदुपस्थितः
माधवस्नानमाहात्म्याद्विनैव यमयातनाम् । महापापापि ते वीर सुंदरी सा सुताभवत्
एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम् । सर्वजन्मभवं वीर कर्म दुष्कर्मसंभवम्
नारद उवाच- जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः । तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात्
दिवोदास उवाच- कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना । जातूकर्ण उवाच-। कथयामि महत्पुण्यं येनेयं सुखिता भवेत्
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः । स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम्
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम् । प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति