पुरा कथां हि वदतां विप्राणां नर्मदातटे । शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम्
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे । भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते
संपूर्णमपि वैशाखे यो बहिः स्नानमाचरेत् । विधिना माधवं देवमर्चयेत्सोपि पापहा
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः । महापापैर्विमुच्येत मानवो मासि माधवे
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशंकः । यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे
एवमाकर्णितस्तेषां विप्राणां वदतां मया । अनेकदुरितांभोधि तरणे पोत उत्तमः
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा । तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च
यदि ते रोचते कांते विरक्तं वामनो भवेत् । तन्मया त्वं समागच्छ वैशाखस्नानहेतवे
अनित्यं जीवितमिदं यौवनं चातिसुंदरम् । हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत्
आराधितस्त्वयाहं च पातितो दुरितार्णवे । महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम्
किमत्र बहुनोक्तेन न विलंबोचितः क्षणः । उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि
चित्रोवाच-। स्वामिन्न दृष्टयोगेन तव संगतिधर्मतः । ध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमः । अचिंत्यायै नमस्तस्यै ततो नियतायै पुनः
जातूकर्ण उवाच-। इति भाष्यततस्तेन समं चित्रा ययौ तदा । विद्यमानं धनं किंचिदादाय मुनिनोदिता
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम् । अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः
हृदयालुरयं विप्रः स्नापयामास तां तदा । यथोचितविधानेन चित्रामुच्चित्रभाषिणीम्
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा । पठमानेषु विप्रेषु पुराणानि पृथक्पृथक्
यस्य श्रवणमात्रेण क्षीयते दुरितांधकः । यथा सूर्योदये नैव तिमिरौघः प्रणश्यति
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः । स्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ
तत्र मज्जंति रेवायां सेवायां निरता हरेः । वैशाखे विविधा लोका लोकानंत्यमभीप्सवः
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंति । विशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः
आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनः । स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम्
सकलं माधवं मासं सा चित्रा नर्मदाजले । सस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः । विप्राणां तत्र पठतां संगादस्य द्विजन्मनः
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः । अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम्
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः । उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः
अथ कालेन कियता कालधर्ममुपेयिवान् । विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप
तेन माधवमासस्य सुकृतेन तदैव सा । पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम्
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम् । वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम । यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च