पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम् । जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः
दिवोदास उवाच-। कथयस्व प्रसादेन किमेतस्याहि पातकम् । दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम्
जातूकर्ण उवाच-। तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम् । पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु
आस्ते वाराणसी पुण्या नगरी पापनाशिनी । तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः । तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता
कुलाचारं परित्यज्य दुराचारेण वर्तते । न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः । भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया
नित्यं परगृहे वास निरता भ्रमतेऽधिकम् । परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा
साधुनिंदारता पापा बहुहास्यकरी सदा । कुसंगतिरता वाचा दुराचारजनप्रिया
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी । विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम्
तया नवीनया वीरो भार्यया सहितोऽनिशम् । यथासुखं स बुभुजे विषयान्मनसः प्रियान्
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा । सत्ययामितया सत्या सुमत्याराधितो बभौ
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी । स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा । सा पापरतसंयुक्ता रक्ता दूती विकर्मणि
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम् । गृहभंगमसौ चक्रे वक्रेण मनसा हिता
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत् । नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः
मनांसि चालयेत्पापा पुरुषाणां च योषिताम् । साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत्
कारयत्येव कपटं धर्मग्रामविवर्जनम् । एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता
कालेन निधनं प्राप्ता सततं पापनिश्चया । जाता तव गृहे पुत्री दिव्यादेवीति सा सुता
सुंदरी रूपसंपन्ना पुरा दृष्टेन नोदिता । नारद उवाच-। इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः । उवाच राजा मधुरं जातूकर्णं मुनिं वचः
दिवोदास उवाच-। यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता । कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम् । पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री
नारद उवाच-। इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः । किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत्
जातूकर्ण उवाच-। चित्रा विचित्रसुरतैरथ वंचयंती प्रच्छन्नकामुकविटान्धनधीविहीनान् । वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे
कोऽपि तत्र समायातः सायं विप्रः समार्दितः । अर्दमानो विशुद्धात्मा नगरे नागसंज्ञके
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ । तया संमोहितोऽत्यर्थं वेश्यया दृष्टियोगतः
पादसंवाहनस्नानतांबूलासनभोजनैः । विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः । संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः
प्रातः प्रयाणाभिमुखः कथंचिदुवाच चित्रामनुरक्तचित्तः । संतोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम्
ब्राह्मण उवाच-। कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये । स्वदृढं च निजं दुःखं कथयाम्यविशेषतः