गुणरूपसमायुक्ता सुशीला चारुमंगला । दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ३७ (द्र. पद्मपुराण [https://sa.wikisource.org/s/fwm भूमिखण्ड, अध्यायः ८५.५४])। पित्रा त्वालोकिता सा तु रूपलावण्यसंयुता । स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा
कस्मै च दीयते कन्या सुवराय महात्मने । इति चिंतापरो भूत्वा समालोक्य नरोत्तमः
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः । चित्रसेनं महात्मानं समाहूय ततो नृपः
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते । तस्या विवाहकालस्य संप्राप्ते समये नृप
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल । दिवोदासश्च धर्मात्मा चिंतयामास भूपतिः
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनंदन । अस्या विवाहकाले तु चित्रसेनो दिवं गतः
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवंतु मे । ब्राह्मण उवाच-। विवाहो जायते राजन्कन्यायास्तु विधानतः
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च । महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते । तस्यां रजस्वलायां च अन्यः पतिर्विधीयते
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः । एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः
विवाहार्थं महाराज मानसं कृतवान्नृप । पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने । मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः । करोति स पितोद्योगं विवाहस्यातिदुःखितः
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा । एकविंशतिभर्तारः कालेकाले मृतास्ततः
ततो राजा महादुःखी संजातः ख्यातविक्रमः । समालोक्य तमाहूय मंत्रिभिः सह निश्चलः
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः । अथ तेन समाहूता राजानो विविधा नृपाः
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः । तस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः
संग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम् । एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः । बालामालोक्य तां राजा रुदंतीं चातिदुःखिताम्
पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम् । जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः
दिवोदास उवाच-। कथयस्व प्रसादेन किमेतस्याहि पातकम् । दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम्
जातूकर्ण उवाच-। तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम् । पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु
आस्ते वाराणसी पुण्या नगरी पापनाशिनी । तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः । तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता
कुलाचारं परित्यज्य दुराचारेण वर्तते । न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः । भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया
नित्यं परगृहे वास निरता भ्रमतेऽधिकम् । परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा
साधुनिंदारता पापा बहुहास्यकरी सदा । कुसंगतिरता वाचा दुराचारजनप्रिया
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी । विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम्