इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणंनाम द्विपंचाशदधिकद्विशततमोऽध्यायः
जैमिनिरुवाच- क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते । क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः
व्यास उवाच- शरीरं मानुषं विप्र दुर्लभं चात्र भूतले । धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत्
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ । तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम । ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम् । क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति । क्रियायोगरतो याति तद्विष्णोः परमं पदम्
जैमिनिरुवाच- क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो । तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम् । श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम्
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी । तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम्
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः । त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये
व्यास उवाच- साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम् । यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम्
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते । तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम् । मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम्
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम् । समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने
दैवयोगान्मुने तत्र ये त्यजंति कलेवरम् । मनुष्य पशु कीटाद्या लभंते परमं पदम्
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु । सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते
मनोभद्रो नाम राजा सोमवंश समुद्भवः । पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्म्मवित्
तस्य हेमप्रभा नाम महिषी प्रियवादिनी । पतिव्रता महाभागा सर्वलक्षणसंयुता
स राजा समरे हत्वा सकलानेव शात्रवान् । शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः
स एकदा महीपालः समाहूय स्वमंत्रिणः । उवाचेदं वचः प्रीत्या सभामध्ये महायशाः
मनोभद्र उवाच-। अमात्याः पृथिवी सर्वा मयेयं परिपालिता । निहता रिपवः सर्वे सपुत्रबलवाहनाः
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः । शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः । एतद्धि जरया सर्वं महत्या मे बलं हृतम्
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः । सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी । तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा । समस्तगुणसम्पन्नामपि तद्गतमानसम्
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा । भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी । सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने