नारद उवाच-। सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम् । तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः
विचित्राणि च कर्माणि विचित्रा भूतभावना । विचित्राणि च भूतानि विचित्राः कर्मशक्तयः
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम् । केनचित्कर्मणा भूप शुभेन परिवर्धते
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि । धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा
न तस्य फलदानस्य श्रूयते कालनिश्चयः । यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति । कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् । यदुक्तं भवता राजन्नायासाधिक्यतो भवेत्
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम् । अनायासमहायासौ यद्यल्पत्व महत्त्वयोः
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः । सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः
पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत् । इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् । इदमल्पं महत्त्वं तदिति नैव नियामकः
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम् । यथाल्पनाशो महता महन्नाशस्तथाल्पतः
किंत्वल्पविस्फुलिंगेन तृणनाशः प्रदृश्यते । अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः । म्रियमाणः सुताह्वानं चक्रे नारायणेति च
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम् । अनिच्छयापि दहति स्पृष्टो हुतवहो यथा
तथा दहति गोविंदनामव्याजादपीरितम्
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च । स्तेयान्यशेषाणि हरेः प्रियेण गोविंदनाम्ना निहतानि सद्यः
विष्णुभक्तिमयं वीर यत्किंचित्क्रियतेऽल्पकम् । सुकृतं साधु विदुषा तदक्षयफलं भवेत्
संदेहो न च कर्तव्यो माधवे मासि माधवम् । समाराध्य जनो भक्त्या तत्तद्वांछितमाप्नुयात्
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः । सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः । पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः । सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि
प्रियो माधवमासोऽयं माधवस्य महात्मनः । एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः
पुण्येन गांगेन जलेन काले देशे बुधः स्नानपरः कथंचित् । आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत्
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले । प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत्
गंगादितीर्थेषु वसंति देवा देवालये यक्षगणाश्च नित्यम् । विनाशनं यांति कृतोपवासा भावोज्झितास्तेन फलं लभंते
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या । यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम्
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते । विचित्रं कथयिष्यामि फलं किमपि कर्मणाम्
तस्य माधवमासस्य प्रसादान्माधवस्य च । यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम्
दिवोदासेति विख्यातः पुरा कांतीश्वरोऽभवत् । तस्यापत्यं महारत्नं नारीणामुत्तमं सदा