वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ । पूजयामास विधिवन्मधुसूदनमच्युतम्
यमैः सनियमैर्युक्तः शक्त्या किंचिद्ददौ ततः । हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः
कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि । तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम्
विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम् । अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान्
सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा । पतिं शुश्रूषते नित्यं स्नात्वा संपूज्य केशवम्
तौ दंपती ततो यातौ स्वगेहं साधुहर्षितम् । कृतकृत्यावथात्मानौ मन्यमानावसंशयम्
तेन पुण्यप्रभावेण कालेन कियता किल । बभूवुरमितास्तस्य धनधान्यानि संपदः
तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः । धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः
बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः । विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः
समग्रगुणसंपन्नाः संप्रतिष्ठंति कीर्तयः
तौ दंपती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण । स्थानं परं परममीयतुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादात्
यथैव माधवः साक्षाद्विद्यालक्ष्मी धवः स्मृतः । तथैव माधवो मासो मधुसूदनवल्लभः
इदं माधवमाहात्म्यं किंचित्संक्षेपतोऽनघ । मया ते कथितं वीर यत्पुरा च पितुः श्रुतम्
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये एकनवतितमोऽध्यायः
सूत उवाच-। इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः । प्रणम्य विस्मितः प्राहचिंतयन्मनसा हरिम्
अंबरीष उवाच-। कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने । शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम्
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि । कथं माधवमासस्य स्नानेनैवाप सोऽधमः
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीश । अस्मादृशो भूपतयोऽर्थवंतो न ते लभंतेऽवनिदैवतत्वम्
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम् । कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथंचिद्बहुभिः प्रयत्नैः
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता । पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम्
नारद उवाच-। सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम् । तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः
विचित्राणि च कर्माणि विचित्रा भूतभावना । विचित्राणि च भूतानि विचित्राः कर्मशक्तयः
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम् । केनचित्कर्मणा भूप शुभेन परिवर्धते
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि । धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा
न तस्य फलदानस्य श्रूयते कालनिश्चयः । यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति । कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् । यदुक्तं भवता राजन्नायासाधिक्यतो भवेत्
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम् । अनायासमहायासौ यद्यल्पत्व महत्त्वयोः
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः । सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः
पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत् । इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता