वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् । तदैव हरिपूजायाः संगत्या ब्राह्मणस्य च
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम् । सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः
सुजन्ममरणं चैव सुभोगः सुखमेव च । सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः । नारायणस्य जायंते सिद्धयो विप्रवाञ्छिताः
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये । स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम्
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः । एहिकं सुखमासाद्य जनो याति ततो हरिम्
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन । सूर्योदये विप्र यथा तमिस्रा वचः स्वयंभूरिदमादिदेश
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ । यमस्य गुप्तं मनसा विचिंत्य मनुष्यलोकैर्गमितुं च नाके
तस्मादस्मिन्समायाते माधवे मासि माधवे । स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना
पूजयित्वा विधानेन मुकुंदं मधुसूदनम् । पुत्रपौत्रधनं श्रेयो वांछितानि सुखानि च
अनुभूय ततस्त्वंते स्वर्गमक्षयमाप्स्यसि । पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम्
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम् । एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय । देवमाराध्य गोविंदं नारायणमनामयम्
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम्
नारद उवाच- ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि । हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र
आमंत्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः । सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात्
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे । आराधयिष्येमधुसूदनंतुश्रीमाधवेमासिनिमज्ज्यभक्त्या
नारद उवाच- आकर्ण्य वाक्यं परमं पवित्रं सुमंगलं मंगलहेतुमुच्चैः । हर्षेण युक्ता तमुवाच कांतं धन्योसि विप्रेण विबोधितस्त्वम्
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने नवतितमोऽध्यायः
नारद उवाच-। देवशर्मा महाप्राज्ञः समं सुमनसा तया । तीर्थे कनखले पुण्ये गंगायामतिविश्रुते
वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ । पूजयामास विधिवन्मधुसूदनमच्युतम्
यमैः सनियमैर्युक्तः शक्त्या किंचिद्ददौ ततः । हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः
कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि । तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम्
विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम् । अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान्
सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा । पतिं शुश्रूषते नित्यं स्नात्वा संपूज्य केशवम्
तौ दंपती ततो यातौ स्वगेहं साधुहर्षितम् । कृतकृत्यावथात्मानौ मन्यमानावसंशयम्
तेन पुण्यप्रभावेण कालेन कियता किल । बभूवुरमितास्तस्य धनधान्यानि संपदः
तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः । धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः
बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः । विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः
समग्रगुणसंपन्नाः संप्रतिष्ठंति कीर्तयः