तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम् । तुष्टेन मनसा विप्र पूजितो मधुसूदनः
अवशिष्टदिनान्येव पंचमासस्य तस्य वै । एकादशीं समारभ्य स्नानं च विधिवत्कृतम्
ब्राह्मणस्य प्रसंगेन रेवां चानुदिने त्वया । प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता
पूजितो देवदेवेशो मधुहा परमेश्वरः । नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः
एवं स्नानं त्वया चीर्णमपि पंचदिनात्मकम् । तेन पुण्येन संगत्या ब्राह्मणस्य विशेषतः
गोविंदस्य प्रसादेन त्वं तु ब्राह्मणतां गतः । त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम्
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम् । भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी । रूपमेव परं स्त्रीणां भूषणं च महामुने
शीलमेव द्वितीयं च तृतीयं सत्यमेव च । सदार्यत्वं चतुर्थं तु पंचमं पुण्यमुत्तमम्
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत् । बाह्यांतः सततं स्त्रीणां सर्वाभरणसप्तमम्
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल । सहिष्णुता च दशमं रतिरेकादशं तथा
पतिव्रतत्वं विप्रेंद्र द्वादशं योषितां स्मृतम् । एतैः संभूषिता भार्या साध्वी ते ब्रह्मवादिनी
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम् । किंकिं न दुर्ल्लभतरं प्राप्यते मासि माधवे
स्नानेन परमेशस्य पूजनेन यथाविधि । अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसंचितम् । न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया
न बंधुवर्गो नो पुत्रदारेषु च कथंचन । म्रियमाणेन भवता लोभ एव हि चिंतितः
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् । न हि नारायणो देवो ध्यानेनाखिल पापहा
द्रव्येषु विद्यमानेषु कृपणो जायते नरः । अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम्
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते । नो दत्तेन विना विप्र किंचिदेवोपतिष्ठति
तस्य पापस्य भावेन दरिद्रत्वमुपागतम् । अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् । तदैव हरिपूजायाः संगत्या ब्राह्मणस्य च
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम् । सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः
सुजन्ममरणं चैव सुभोगः सुखमेव च । सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम्
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः । नारायणस्य जायंते सिद्धयो विप्रवाञ्छिताः
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये । स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम्
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः । एहिकं सुखमासाद्य जनो याति ततो हरिम्
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन । सूर्योदये विप्र यथा तमिस्रा वचः स्वयंभूरिदमादिदेश
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ । यमस्य गुप्तं मनसा विचिंत्य मनुष्यलोकैर्गमितुं च नाके
तस्मादस्मिन्समायाते माधवे मासि माधवे । स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना
पूजयित्वा विधानेन मुकुंदं मधुसूदनम् । पुत्रपौत्रधनं श्रेयो वांछितानि सुखानि च