देवशर्मोवाच- पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत् । शूद्रत्वेन हि विप्रेंद्र मयैवं धनमर्जितम्
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम । तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता । मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम्
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी । सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत्
वसिष्ठ उवाच-। यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज । तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपंडितः । विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम् । अटमानः समायातस्तव गेहे महामतिः
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव । यतो धर्मगते गेहे सतामागमनं भवेत्
किंकिं न लभ्यते विप्र विप्रवैष्णवसेवया । दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम्
याचितं स्थानमेकं वै वासार्थं तेन सत्तम । तवैव भार्यया दत्तं त्वया च सह पुत्रकैः
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम । वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत । अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात् । गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम्
अंगसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ । क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान् । ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः
एवं संतोषितो विप्रस्त्वयैव सह भार्यया । पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः
अथ प्रभाते विमले स्नानार्थं मासि माधवे । गंगायां गच्छता तेन तुष्टेन दययाधिपम्
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः । कारितस्तु यथान्यायं सभार्या तनयो भवान्
यथा न वारिधि समो लोके कोपि जलाशयः । तथा मासो न वैशाखसदृशो माधवप्रियः
तावत्पापानि तिष्ठंति निष्प्रत्यूहं कलेवरे । यावत्किल मलध्वंसी मासो नैति स माधवः
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम् । तुष्टेन मनसा विप्र पूजितो मधुसूदनः
अवशिष्टदिनान्येव पंचमासस्य तस्य वै । एकादशीं समारभ्य स्नानं च विधिवत्कृतम्
ब्राह्मणस्य प्रसंगेन रेवां चानुदिने त्वया । प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता
पूजितो देवदेवेशो मधुहा परमेश्वरः । नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः
एवं स्नानं त्वया चीर्णमपि पंचदिनात्मकम् । तेन पुण्येन संगत्या ब्राह्मणस्य विशेषतः
गोविंदस्य प्रसादेन त्वं तु ब्राह्मणतां गतः । त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम्
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम् । भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी । रूपमेव परं स्त्रीणां भूषणं च महामुने
शीलमेव द्वितीयं च तृतीयं सत्यमेव च । सदार्यत्वं चतुर्थं तु पंचमं पुण्यमुत्तमम्
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत् । बाह्यांतः सततं स्त्रीणां सर्वाभरणसप्तमम्